विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 243, कुल 493 में से
संदर्भ में पढ़ें( २२५ ) आक्रान्तरिपुचक्रेण १चक्रकोटपतेः परम् । लिखिताश्चित्रशालासु तेनामुच्यन्त दन्तिनः ॥३०॥ अन्वयः आक्रान्तरिपुचक्रेण तेन चक्रकोटपतेः चित्रशालासु लिखिताः दन्तिनः परम् अमुच्यन्त । व्याख्या आक्रान्तं समाक्रान्तं विजितमित्यर्थः । रिपुचक्रं शत्रुचक्रवालं येन तेन विजितारिसमूहेन तेन विक्रमाङ्कदेवेन चक्रकोटनामकस्थानस्य पतिः स्वामी तस्य चक्रकोटदेशाधिपत्य चित्राणां शालासु गृहेषु चित्रमन्दिरेषु लिखिताश्चित्रिता दन्तिनो गजाः परं केवलममुच्यन्त मुक्ताः । चक्रकोटपतेस्सकला गजा स्वायत्तीकृता इत्यर्थः । अत्र केवलं चित्रलिखिता गजा एव त्यक्ता इत्युक्त्या सर्वाऽपि गजसेना स्वायत्तीकृतेति प्रतीत्याऽर्थापत्तिरलङ्कारः । भाषा शत्रु समूह को जीतने वाले उस राजकुमार विक्रमाङ्कदेव ने चक्रकोट के राजा की चित्रशाला में चित्रित हाथियो को ही केवल छोड़ दिया अर्थात् उसके सव हाथी ले लिये । कृतकार्यः परावृत्य कियत्यप्यध्वनि स्थितः । अथ गम्यत्वमरतेरकस्मादेव सोऽगमत् ॥३१॥ अन्वयः अथ कृतकार्यः सः परावृत्य कियति अध्वनि अपि स्थितः (सन्) अकस्मात् एव अरतेः गम्यत्वम् अगमत् । व्याख्या अथ दिग्विजयानन्तरं कृतं कार्यं दिग्विजयलक्षणं येन सः सम्पादितोद्देश्यः १ वङ्गिदेशस्योत्तरतश्चक्रकोटनगरमासीत् । एतत्प्रदेशो हस्तिनामभिख्याता 'आइने अकबरी' पुस्तकेनाऽपि समर्थ्यते । १५