विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 246, कुल 493 में से
संदर्भ में पढ़ें( २२६ ) स विक्रमाङ्कदेवः परावृत्य निवृत्य कियत्यध्वन्यपि मार्गेऽपि स्थितस्सन् विजय- प्रदेशात्परावृत्य स्वदेशमार्गे कियदद्दूर समागतोऽपि सन्नकस्मादेवाशङ्कितोपनत- मरतेरुद्वेगस्य यन्त्यत्व पात्रत्वमगमत् प्राप्त. । भाषा बाद में दिग्विजय का कार्य सम्पन्न कर लौटते हुए मार्ग में कुछ दूर भी आजाने पर, वह अकस्मात् अशान्ति का पात्र बन गया अर्थात् वह उद्विग्न हो उठा। स शङ्कातङ्कमासाद्य स्फुरणाद्वामचक्षुषः । श्रेयोऽस्तु तातपादाना-मिति सास्रमवोचत ॥३२॥ अन्वयः सः वामचक्षुषः स्फुरणात् शङ्कातङ्कम् आसाद्य तातपादानां श्रेयः अस्तु इति सास्त्रम् अवोचत । व्याख्या स राजकुमारो वाम दक्षिणेतर चक्षुर्नयन तस्य वामनयनस्य स्फुरणाच्च- लनात् शङ्कया सन्देहस्याऽऽशङ्क भयमासाद्य प्राप्य तातपादाना पूज्यचरणाना (मम पितु.) श्रेय कल्याणमस्त्विति घचोऽखेनाऽश्रुणा सहित यथास्यात्तथाऽवोच- तोक्तवान् । भाषा बाईं आंख के फडकने से सन्देह से भयभीत होकर उसने आंसू बहाते हुए पिता जी का शुभ हो, ऐसा कहा । अद्दश्यैः कैश्चिदागत्य चिन्तया शून्यचेतसः । तस्यामङ्गलवार्तेव कापि कर्णे न्यधीयत ॥३३॥ अन्वयः अद्दश्यैः कैश्चित् इव आगत्य चिन्तया शून्यचेतसः तस्य कर्णे का अपि अमङ्गलवार्ता न्यधीयत ।