विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 265, कुल 493 में से
संदर्भ में पढ़ें( २४८ ) अन्वयः इति उक्त्वा तत्र विरते (सति) कृतनेत्राम्बुदुर्द्दिनः पार्श्वस्थैः हृतासिधेनुः सान्द्रन्दद्गलकन्दलः सः स्वभावात् आर्द्रभावेन तादृशः पितृस्नेहात् च भूपृष्ठलुठितेन वपुषा तथा रुरोद । व्याख्या इति पूर्वोक्तमुक्त्वा कथयित्वा तत्र दूते विरते विश्राममुपगतवति सति कृतं सम्पादितं नेत्राम्बुभिर्नयननिर्गताश्रुजलैर्दुर्द्दिनं मेघावृतदिवसो येन सः 'मेघच्छन्नेऽह्नि दुर्द्दिनम्' इत्यमरः । अश्रुवृष्टिं कुर्वन्नित्यर्थः । पार्श्वे तिष्ठन्तीतो पार्श्वस्थास्तैः समीपचरैर्जनै हृता गृहीता असिधेनुश्छुरिका यस्य स 'छुरिका चासिधेनुका' इत्यमरः । आक्रन्देनाऽर्त्तनादेन सहितो गल एव कन्दलो नालो यस्य सः राजकुमारः स्वभावात्प्रकृत्यैवाऽऽर्द्रभावेन स्निग्धभावेन 'भावः सत्तास्वभावा- भिप्रायचेष्टात्मजन्मसु' इत्यमरः । तादृक्स्तथाभूतादनिर्वचनीयात्पितृस्नेहाच्च पितृप्रेम्णश्च भुवः पृष्ठे भूपृष्ठे भूमितले लुठितमितस्ततः परावर्तितं तेन वपुषा शरीरेण 'गात्रं वपु संहननं शरीरं वर्त्म विग्रहः' इत्यमरः । तथावं वक्ष्यमाण- प्रकारेण रुरोद रोदनं कृतवान् । भाषा इस प्रकार कह कर दूत के चुप होने पर अपने आंखो के आंसुओ से मेघ के ऐसी वृष्टि करने वाला, पास के लोगो ने कही दुख से वह अपना प्राणान्त न करले इस भय से जिसकी छुरी छीन ली है ऐसा फुक्काफाड कर रोने वाला, वह राजकुमार, स्वभाव से ही कोमल हृदय होने से तथा वैसे पितृस्नेह से जमीन पर लोट २ कर इस प्रकार विलाप करने लगा । एवंविधदुराचार—गृहीतनियमं यमम् । मन्यते स्म यथा वंशे तिग्मांशुराप कण्टकम् ।।७१।। यथा तिग्मांशुः अपि एवंविधदुराचारगृहीतनियमं यमं वंशे कण्टकं मन्यते स्म । व्याख्या स तथा रुरोवेति पूर्वपद्योक्तेन तथाशब्देन सहाऽन्वस्थो यथा शब्दः साकाङ्क्षः। स तथा रुरोद यथा येन कारणेन तिग्मांशुः सूर्यो यमपिताऽप्येवंविधदुराचाराय