भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 272, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 272

( २५५ ) अपूर्वः कोपि दुर्मेधाः शङ्के वेधाः समुत्थितः । पुराणः क्लेशनिष्पन्नां स्वकृतिं नाशयेत्कथम् ॥८१॥ अन्वयः कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पु (वेधाः) क्लेशनिष्पन्नां स्वकृतिं कथं नाशयेत् । व्याख्या कोऽपि कश्चिन्न पूर्वं प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मे बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा 'स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधि इत्यमर । समुत्थित संभूत (इति) शङ्के तर्कयामि । पुराण प्राचीनौ वेध ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्ना सम्पादिता स्वकृति राजाऽऽहवमल्लदेवोत्पाद नकार्यं कथं नाशयेत् समुन्मूलयेत् । अत्रोत्प्रेक्षालङ्कार । भाषा मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यो कि यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी अपनी वस्तु को कैसे नष्ट करता । अहो शौर्यमहो धैर्यं चित्रं गाम्भीर्यविभ्रमाः । यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥ अन्वयः शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् ! यत् क्वचित् एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सत्यम् । व्याख्या शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्वमहो आश्चर्यकारि । धैर्यं नृपाहवमल्लदेव- निष्ठं धीरत्वमहो अद्भुतम् । गाम्भीर्यस्य मर्यादाया विभ्रमा विलासाश्चित्रमा- श्चर्यावलम्बिन । यत् तदिति क्वचिदित्यादिवाक्यपरामर्शकम् । क्वचित् कस्मिंश्चिदेकत्रैकस्मिन् स्थाने आधारे वा पुनस्ते पूर्वोक्तास्सर्वे गुणा शौर्यादयो दुर्लभा दुष्प्रापास्तत् सत्यमवितथम् । आहवमल्लदेवे राज्ञि पञ्चत्व गते सति