विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 274, कुल 493 में से
संदर्भ में पढ़ें( २५८ ) व्याख्या प्रधावन्त्योऽतितीव्रवेगेनाऽऽपतन्त्यः समुद्रपक्षे वहन्त्यः सम्मुखा अभिमुखा अनेका बह्व्यो वाहिन्यः सेना. पक्षे नद्यः 'वाहिनी नर्तकीदूत्यो स्रवन्त्यामपि वाहिनी' इत्यमरः । तासां गाहने विलोडने क्षमस्समर्थस्तथाविधस्तादृशः सत्त्वस्य बलस्य सत्त्वगुणस्य वा पक्षे सत्त्वानि जलजन्तवस्तेषां राशिः 'सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावान्यभावे बले प्राणेषु जन्तुषु' इति हेमचन्द्रः । निधिरम्भोधिरेव समुद्र इव दुष्प्रापो दुर्लभः । तीव्रवेगेन सम्मुखं समागच्छन्तीनां नदीनां गाहने समर्थः, जलजन्तूनां निधिसमुद्र इव तीव्रवेगेन सम्मुखं समागच्छन्तीनां सेनाना विलोडने समर्थ बलवान् सत्त्वगुणयुक्तो राजाऽऽहवमल्लदेवसदृशो नरो दुर्लभ इति भावः । अत्र श्लिष्टोपमालङ्कारः। भाषा वेग से सम्मुख आने वाली नदियो को अपने में मिला लेने में समर्थ, जलजन्तुओ के निधि समुद्र के समान, वेग से सम्मुख आने वाली सेनाओं को मथ डालने में समर्थ, सत्यगुण या बल का निधि राजा आहवमल्लदेव के ऐसा पुरुष दुर्लभ है । आर्येण सौकुमार्यैक-भाजनेन हहा कथम् । अयं विषादवज्राग्निरसहात मया विना ॥८६॥ अन्वयः सौकुमार्यैकभाजनेन आर्येण अयं विषादवज्राग्निः मया विना कथम् असहात, हहा । व्याख्या सौकुमार्यं कोमलता मार्दवं वा तस्यैकं भाजनं पात्रं तेन सोकुमार्यैकभाजनेन स्नेहार्द्रपरममृदुस्वभावेनाऽऽर्येण पूज्येन ज्येष्ठभ्रात्रा सोमदेवेनाऽयमनुभूयमानो विषाद एव पितृमरणशोक एव वज्राग्निः कुलिशवदविषहदुःखदहनो मया विना ममानुपस्थितौ कथं केन प्रकारेणाऽसहात सोढः । हहा इति खेदे । अहमेव ज्येष्ठ- भ्रातुरतिप्रियोऽस्मि । दुःखकाले चाऽतिप्रियवस्तुनिरीक्षणेन मानसे शान्तिस्स- ञ्जायते, दु खसहनस्य क्षमताऽपि संपद्यते । ममानुपस्थितौ कथं मे भ्राता तद्दुःखं सहने समर्थो जातः स्यादिति भावः ।