विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished493 पृष्ठ
पृष्ठ 3, कुल 493 में से
संदर्भ में पढ़ेंपृष्ठ 3
- किञ्चित् प्रास्ताविकम् * —•••— अयि विद्वज्जनमनोम्यूरविश्रामारामा निरतिशयशेमुषीमण्डिता पण्डिता विदितचरमेव तत्र भवता भवता यत् विक्रमाङ्कदेवचरितमहाकाव्य त्रिभू मल्लदेव-विद्यापति-काश्मीरकभट्ट-श्रीविह्लणमहाकविविरचित प्रशस्तमहाकाव्य प्रमुखताहंमिति । अद्य यावदस्य महाकाव्यस्य त्रिवार प्रकाशन जातम् । १. डा० जॉर्ज ब्यूह्लरमहोदयेन महता परिश्रमेण श्री पण्डित नामनाचार्य झळकीकर-महोदयाना श्री भीमाचार्यमहानुभावानाञ्च साहाय्येन मुम्बापुरीसंस्कृत- ग्रन्थमालाया १८७५ तम ईशवीये वर्षे प्रकाशितम् । २ प्रात स्मरणीयाना गुरुवर्याणा स्व म म श्री प रामावतारशर्मणा नाम्ना काशीस्थज्ञानमण्डलसस्थात ईशवीये १९२७ तम वर्षे प्रकाशितम् । ३ श्री प मुरारीलाल नागर महोदयैः साहित्याचार्य-एम् ए पदवी- विभूषितै विद्वद्वराणा डा० मङ्गलदेवशास्त्रिणा निरीक्षणे काशिक-सरस्वतीभवन- पुस्तकालयप्रकाशनविभागात् प्रकाशितम् । प्रथम—डा० ब्यूह्लरमहोदयस्य पुस्तकं सम्प्राप्तैकहस्तलिखितपुस्तकाधारेण मुद्रित, सन्दिग्धस्थलेषु स्वकल्पितपाठभेदेनाञ्चितत्वाञ्चाशुद्धिवहुळम् । परञ्च महाकाव्यस्याऽस्य सर्वप्रथम प्रकाशन कृत्वा गूढान्धकारनिपतितसंस्कृतग्रन्थभाण्डा- रादस्योद्धरण साधारणलोकावलोकनं स्थापनञ्च सस्कृतविद्वत्सु डाक्टरमहोदयस्य कृतज्ञत्व माऽङ्कलयतीति तु न । तथापि विदुषोर्येदत्र सहयोगो वर्णितस्स पुस्तक- स्यंतस्याऽवलोकनेन न सन्देहराहित्यमधिगच्छति । द्वितीय—काशीस्थज्ञानमण्डलाधिकारिभिर्गुरुवर्याणा सम्मत्याऽसम्मत्य वा तन्नाम्ना प्रकाशितमतीवाऽशुद्धमिति श्री गुरुवर्याणा दृष्टिपथमपि न गत स्यादित्येव द्योतयति । सति रविकरनिकरप्रवेशे कुतोऽन्धकारस्य सम्भव ।