विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 302, कुल 493 में से
संदर्भ में पढ़ें( २८७ ) व्याख्या शतपत्रे कमले इव लोचने नेत्रे यस्य सः कमलनेत्रस्त विक्रमादित्यः नृपो राजलक्ष्म्याः शोभाया या विलासभुवि क्रीडास्थाने बाहुर्भुज एष पञ्जरस्तस्मिन् भुजपञ्जरे राजहंसमिव मरालमिव शुभ्रं यशः कीर्तिं लालयन् सुखपूर्वकं पालयन् सन् तत्र तत्र सर्वत्र स्थाने चित्रमाश्चर्ययुवतमभ्युदयं समुन्नतिमासाद्य प्राप्तवान् । भाषा कमल के समान नेत्र वाले उस विक्रमाङ्कदेव ने राजलक्ष्मी या शोभा की विलास भूमि अपनी भुजा रूपी पिंजड़े में हंस के समान श्वेत यश को प्रेमपूर्वक पालन करते हुए सर्वत्र आश्चर्य जनक अभ्युदय प्राप्त किया । अर्थात् अपने भुजबल से शत्रुओं को परास्त कर यश फैलाते हुए सर्वत्र आश्चर्य जनक अभ्युदय किया । मन्युपङ्ककलुषं समुद्वहन् भ्रातृदुश्चरितचिन्तनान्मनः । सुप्रसन्नपयसा प्रसन्नतां द्रागनीयत स तुङ्गभद्रया ॥१०॥ अन्वयः भ्रातृदुश्चरितचिन्तनात् मन्युपङ्ककलुषं मनः समुद्वहन् सः सुप्रसन्नपयसा तुङ्गभद्रया द्राक् प्रसन्नताम् अनीयत । व्याख्या भ्रातुस्सोमदेवस्य दुश्चरितं कुचरित्रं तस्य चिन्तनात् स्मरणात् मन्युः क्रोध एव दैन्यमेव वा 'मन्युर्दैन्ये क्रधौ क्रुधि' इत्यमरः । पङ्कः कर्द्दमस्तेन कलुष मलिनं मनो हृदयं समुद्वहन् धारयन् स विक्रमाङ्कदेवः सुप्रसन्नं निर्मलं पयो जलं यस्या- स्तया तुङ्गभद्रया नद्या द्राग् झटिति प्रसन्नतां निर्मलत्वमनीयत प्राप्तः । तुङ्ग- भद्रादर्शनेन तत्र स्नात्वा च प्रसन्नचित्तो बभूवेति भावः । अत्र रूपकालङ्कारः । भाषा अपने भाई सोमदेव के कुकर्मों का विचार करने से उत्पन्न क्रोध या विषाद रूपी कीचड़ से मलिन हृदय को धारण करने वाला विक्रमाङ्कदेव निर्मल जल वाली तुङ्गभद्रा नदी को देख कर (और उसमें स्नान कर) शीघ्र ही प्रसन्न हो गया ।