भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 310, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 310

( २९८ ) अन्वयः जयकेशीपार्थिवः एनम् एत्य प्रार्थितात् अधिकं धनम् अर्पयन् (सन्) कोङ्कणप्रणयिनीमुखेन्दुपु हासचन्द्रिकां निश्चलाम् अकृत। व्याख्या जयकेशी नाम कोङ्कणदेशाधिपो गुर्जरदेशाधिपस्य जयसिंहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्रार्थितादभिकाङ्क्षितादधिकं महत्त्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासां मुखेन्दवो वदन- चन्द्रास्तेषु हास एव चन्द्रिका कौमुदी 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः। तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशीया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः। अत्र रूपकालङ्कारः। भाषा (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सम्मुख उपस्थित होकर, मागे हुए से अधिक धन देकर, कोंकण देश की नारियों के मुख रूपी चन्द्रमा की हास्य रूपी चांदनी को अचल कर दिया। अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गईं। आलुपेन्द्रमवदातविक्रमस्त्यक्तचापल मसाववर्धयत् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ अन्वयः अवदातविक्रमः असौ त्यक्तचापलम् आलुपेन्द्रम् अवर्धयत्। अविन- याग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति । व्याख्या अवदातो धवलो लोकोत्तरत्वेन विख्यातः इत्यर्थः। विक्रमः पराक्रमो यस्य स असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्यक्तं दूरीकृतं चापलमौद्धत्यं येन तमविन- यासम्पृक्तं विनीतमित्यर्थः । आलुपस्य देशविशेषस्येन्द्रं राजानमालुपदेशाधिपति- मवर्धयत्सम्यक् परिपालनेन समृद्धिमन्तमकरोत् । अविनयस्योद्धत्यस्याऽग्रदूतिका परिचारिकाऽप्रणतिरेवाऽनतिरेव तादृशामवदातविक्रमाणां विक्रमाङ्कदेवसदृशानां कोपं क्रोधं दीपयति समुज्ज्वलयति। अत्राऽर्थान्तरन्यासालङ्कारः ।