भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 312, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 312

( ३०१ ) अन्वयः ततः नयमार्गकोविदः द्राविडेन्द्रपुरुषः प्रतिक्रियाशून्यपौरुषविशेषः। सज्जधनुषः तस्य सभाम् आजगाम । व्याख्या ततो राजकुमारस्य द्राविड़राजभूमितन्मूलागमनानन्तर नयस्य राजनीतेम पन्थास्तस्य कोविदो ज्ञाता नीतिज्ञ इत्यर्थं । द्राविडेन्द्रस्य द्रविड़देशनृप चोलदेशाधिपवीरराजेन्द्रस्य पुरुषो दूतस्सन्देशहारक इत्यर्थं । प्रतिक्रिया प्रतीक रस्तया शून्यं रहितं पौरुष पराक्रमस्तस्य विशेषोऽतिशयस्तेन शालते शोभ तस्याऽजेयपराक्रमातिशयनृप सज्ज शरप्रक्षेपशाय पूर्णतयोयुक्तं धनु शोवण यस्य स तस्य सज्जधनुषस्तस्य विक्रमाङ्कदेवस्य सभां संसदमाजगाम प्रविवेश । भाषा बाद में नीतिशास्त्रपारङ्गत द्रविड़देश के राजा का दूत अजेय पौरुषविशेष से शोभित तथा युद्ध के लिय सदैव धनुष को तयार रखने वाले विक्रमाङ्कदेव की सभा में आया । मौलिचुम्बितवसुन्धरातलः कुन्तलेन्द्रतनयं प्रणम्य सः । व्याजहार दशनांशुंपल्लव-न्यस्तकोमलपदां सरस्वतीम् ॥३०॥ अन्वयः मौलिचुम्बितवसुन्धरातलः सः कुन्तलेन्द्रतनयं प्रणम्य दशनांशुपुल्ल- पन्यस्तकोमलपदां सरस्वतीं व्याजहार । व्याख्या मौलिना शिरसा चुम्बित समालिङ्गितं वसुन्धरातलं पृथिवीतलं येन स दूत कुन्तले द्रस्याहवमल्लदेवस्य तनयं पुत्र विक्रमाङ्कदेवं प्रणम्य नमस्कृत्य दशनानां दन्तानामंशव किरणा एव पल्लवा किसलयानि 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । तेषु न्यस्ते विक्षिप्ते कोमले सुकुमारी पदे चरणौ यया सा तां सरस्वतीं वाग्देवतां पक्षे दशनांशव पल्लवा इव कान्तिमत्त्वात्तत्सह न्यस्तानि प्रतिपादितानि कोमलानि मधुराणि पदानि शब्दा यस्यां तां सरस्वतीं वाचं व्याजहार उवाच । मधुरपदविन्यासं यथास्यात्तथोवाचेति भावः ।