विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 329, कुल 493 में से
संदर्भ में पढ़ें( ३२१ ) नाद्य यावदवलोकिता जनैः क्वापि तस्य वचसामसत्यता । मादृशां शुभविपर्ययाद्यदि व्यक्तिमेष्यति भवादृशेषु सा ॥५६॥ अन्वयः अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता । यदि मादृशां शुभविपर्ययात् सा भवादृशेषु व्यक्तिम् एष्यति । व्याख्या अद्य यावदाधुनिककालपर्यन्तं जनैर्लोकैस्तस्य वचसां वाणीनामसत्यता मिथ्यात्वं क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्तिं प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ- वेदिति भावः । भाषा आज तक लोगों को किसी भी विषय में द्राविड़ेश्वर की वाणी की असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है । एवमादिभिरनेन बोधितः कौविदेन वचनैः पुनः पुनः । ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नदीतटम् ॥६०॥ अन्वयः कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञातचोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् । व्याख्या कौविदेन पण्डितेन लोकिव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि- रेतादृशैर्वचनैः पुनः पुनौ भूयो भूयो बोधितो विज्ञापितः स्वयञ्च गुप्तचरादि- भिर्ज्ञातं परीक्षितं चोलस्य चोलदेशाधिपस्य हृदयं येन स विज्ञातचोलराज- हार्दिग्भावः स विक्रमाङ्कदेवः प्राक् पूर्वं निवेदितं सूचितं नदीतटं तुङ्गभद्रानदी- तीरमपाऽजगाम । २१