विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 356, कुल 493 में से
संदर्भ में पढ़ें( ३४८ ) व्याख्या राजपुत्रो नृपनन्दनो विक्रमाङ्कदेवो मृदु कोमलं हृदयं चित्तं यस्य स मृदु- हृदयस्तस्य भावो मृदुहृदयता तया कोमलचित्तत्वात् गुणेषु सौजन्यादिगुणेष्व- नुरागः प्रेम तस्माद्गुणपक्षपातित्वादतिमहतोऽतिबृहतः प्रणयाच्च स्नेहाच्च हिमाश्शीतलाः कराः किरणा यस्य स हिमकरश्चन्द्रस्तस्य करा अंशवः 'किरणो- स्रमयूखांशुगभस्तिघृणिरश्मयः । भानुः करो मरीचिः स्त्री पुंसयोर्दीधितिः स्त्रियाम्' इत्यमरः । तेषां काण्डानि समूहास्तद्वत्पाण्डु श्वेतं गण्डस्थलं कपोलस्त- स्माद्गलत्परिपतद्बाष्पजलं बाष्पाम्भो यस्य स चन्द्रकिरणश्वेतकपोलगलद्बाष्पा- म्बुस्सन् चिरं बहुकालं रुलाप विललाप विलापं चकारेत्यर्थः । अत्राऽनुप्रासः 'शब्दालङ्कार । अत्र 'रुलाप' इति क्रियापदे अवाचकत्वं नाम दोषः, उपसर्ग विनाऽर्थबोधकत्वाऽभावात् । भाषा वह राजपुत्र, कोमल हृदय होने से, गुणों के अनुराग के कारण तथा अत्यधिक प्रेम से, चन्द्रमा की किरणों के समान सफेद पड़ गए हुए गालों पर से आंसुओं को गिराता हुआ बहुत देर तक विलाप करता रहा । द्रविडविषयराज्यविप्लवेन श्रवणपथातिथिना ततः सखेदः । व्यभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुच्चचाल ॥६॥ अन्वयः ततः असौ श्रवणपथातिथिना द्रविडविषयराज्यविप्लवेन सखेदः (सन्) अभिजनवति चोलराजपुत्रे श्रियम् अभिषेक्तुं समुच्चचाल । व्याख्या ततश्चोलराजविषयकशोकानन्तरमसौ विक्रमाङ्कदेवः श्रवणयोः कर्णयोः पन्था मार्ग इति श्रवणपथः कर्णकुहरमार्गस्तस्याऽतिथिर्विषयस्तेन श्रुतेनेत्यर्थः । द्रविड- विषयो द्रविडदेशस्तस्य राज्यं शासनं तस्मिन् विप्लवो डिम्बः 'डिम्बे डमर- विप्लवौ' इत्यमरः । तेन, खेदेन दुःखेन सहितः सखेदो दुःखाक्रान्तस्सन्नभिज- नवति कुलीने 'सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । चोलराजपुत्रे वीरराजेन्द्रात्मजेऽधिराजराजेन्द्रनामके श्रियं राज्यलक्ष्मीमभिषेक्तुं प्रतिष्ठापयितुं समुच्चचाल प्रतस्थे ।