विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 361, कुल 493 में से
संदर्भ में पढ़ें, प्रभाहरुचिस्त्विड्भा भाश्छविद्युतिदीप्तय' इत्यमरः । हृदि वक्षःस्थलेऽन्त करणे च विनिहितं स्थापितं पदं स्थानं येन स तेन कृतस्थानेन धरणीन्द्रस्य नृपतेराहवमल्ल- देवस्य सूनुः पुत्रस्तेन विक्रमाङ्कदेवेनाऽधरं निम्नस्थानस्थितं गुणैर्न्यूनञ्च कृतमिव सम्पादितमिवाऽत एव निपतितमधोभ्रष्टं हारं मुक्तामालामवधीर्य परित्यज्य जगाम गता। कुमारं द्रष्टुं गताऽन्या काऽपि स्त्री रभसात् निपतितां हृदिस्थां मुक्तामालां परित्यज्य जगाम । यत हारस्य स्थाने ललनाहृदयं शुद्धभासा कुमारेणाऽश्रितंत्वात्तस्य निम्नस्थानगतत्वात्पतनमुत्प्रेक्षितमिति भावः । श्लेषा- नुप्रणितोत्प्रेक्षा । भाषा मृग के समान चञ्चल नेत्र वाली कोई ललना, निर्मलकान्तिवाले और ललना के हृदय में स्थान बनाने वाले राज पुत्र से, मानो नीचे खसकाए गये हुए अतएव वक्ष स्थलपर से गिरे हुए हार की परवाह न कर चली गई । उरसि मनसिजावतंसलीला-समुचितकोमलपल्लवानुकाराम् । नखलिपिमपरा प्रकाशयन्ती सुरतविमर्दसहत्वमाचचक्षे ॥१६॥ अन्वयः अपरा उरसि मनसिजावतंसलीलासमुचितकोमलपल्लवानुकारां नखलिपिं प्रकाशयन्ती सुरतविमर्दसहत्वम् आचचक्षे । व्याख्या अपराऽन्या कामिन्युरसि वक्षःस्थले मनसिजस्य कामस्य याऽवतंसलीला भूषणरूपविलासात्तस्याः समुचितो योग्यः कोमलपल्लवो मृदुकिसलयः 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । तस्याऽनुकारोऽनुकणं यस्याः सा तां मन्मथभूषण- विलासयोग्यमृदुकिसलयसदृशाकृतिंमर्द्धवृत्ताकारामित्यर्थः । नखलिपिं नखक्षत- परम्परां प्रकाशयन्ती प्रदर्शयन्ती सुरते निधुवनक्रीडायां यो विमर्दः संप्रधर्षस्तं सहते इति सुरतविमर्दसहस्तस्य भावस्तत् सुरतक्रीडासंघर्षक्षमत्वमाचचक्षे कथितवती । भाषा अन्य किसी नारी न अपनी छाती पर कामदेव के भूषण की शोभा के योग्य कोमल पत्तो की आकृति के अर्धवृत्ताकार नखक्षतो को दिखाते हुए, अपनी सुरत कालीन झकझोर को सहने की योग्यता प्रकट की । २३