विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 363, कुल 493 में से
संदर्भ में पढ़ें( ३५५ ) विक्रमाङ्कदेवस्तस्य प्रथमवलोकनस्य सर्वप्रथमसद्दर्शनस्य यत्कौतुकं कौतूहलं तस्मिन् त्वरा सम्भ्रमो यासां तास्तासां नगरस्य काञ्चीपुर्याः कुरङ्गीलोचना मृगनय- नास्तासां कामिनीनामिति पूर्वोक्तप्रकारोऽनङ्गस्य कामस्य विलोभनो विमोहनोऽ- ऽनङ्गविलोभनो मदनमोहनो विलासो नानाविधकामसम्बन्धिचेष्टाविशेषोऽभवत् प्रादुर्बभूव । भाषा किसी प्रकार चिह्नादि से पहिचान में आए हुए चालुक्य वंशीय राजकुमार विक्रमाङ्कदेव के पहिले पहिल दर्शन की उत्कण्ठा से त्वरा करने वाली नागरिक मृगनयनियों की पूर्वोक्त प्रकार की काम सम्बन्धि चेष्टाएं हुईं । 'नरपतितनयः कयापि कोप-स्फुरितरदच्छदलेखयालुलोके । प्रकटितपटुपञ्चबाणलीला-कलकिलकिञ्चितमीक्षणाञ्चलेन ॥१६॥ अन्वयः कोपस्फुरितरदच्छदलेखया कया अपि ईक्षणाञ्चलेन प्रकटितपटुपञ्च- बाणलीलाकलकिलकिञ्चितं नरपतितनयः आलुलोके । व्याख्या कोपेन क्षोभेण स्फुरितस्सञ्चलितः कम्प्यमानो वा यो रदच्छदोऽधरस्तस्य लेखा अधरदेशः 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' इत्यमरः । यस्याः सा तया क्रोधकम्पितसूक्ष्माधररेखया कयाऽपि नायिकया ईक्षणयोर्नेत्रयोरञ्चलः प्रान्त- भागस्तेन कटाक्षेण प्रकटिता प्रकाशिता पटुर्विदग्धवैदग्ध्यसमेता या पञ्चबाणस्य कामस्य लीला क्रीडा तया कलं मधुरं किलकिञ्चितं कामजनितक्रोधाश्रुहर्ष- भीत्यादिमिश्रितभावविशेषो यस्मिन्कर्मणि तद्यथास्यात्तथा नरपतितनयो राजपुत्रो विक्रमाङ्कदेव आलुलोके सद्दष्टः । भाषा क्रोध से फुरफुराने वाले ओंठ से युक्त, किसी नारी ने कामदेव की चातुरी युक्त मनोहर लीला से आभ्यन्तरिक राग क्रोधादि भावों को प्रकट करते हुए, राजपुत्र विक्रमाङ्कदेव को कटाक्ष से देखा । १ सन्दर्भदृष्ट्या श्लोकोऽयं पूर्वश्लोकात्प्रागेव स्थानमपेक्षते ।