भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 365, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 365

( ३५७ ) विक्रमाङ्कदेवस्तत्र काञ्चीनगरे परिसरभूमिषु नगरबहिर्भागेषु भूरिभिर्बहुविधवि- लासैर्मनोविनोदकृत्यैः कतिचिदपि कानिचिदपि विनाय्यहानि नीत्वा व्यतीत्य गाङ्गकुण्डं पुरं राजेन्द्रचोलनिर्मापितां गाङ्गकुण्डचोलपुराख्यां चोलदेशस्यैकां राजधानीम् अवलोकयति स्म पश्यति स्म तत्र गतवानित्यर्थः । भाषा विपक्षी दुष्ट राजाओ को अपने पैर तले कुचलने वाले राजपुत्र विक्रमाङ्क- देव ने काञ्ची नगरी के आस पास के प्रदेशो के विहार में कुछ दिन बिताकर राजेन्द्रचोल द्वारा बसाए हुए गाङ्गकुण्ड चोल पुर को देखा अर्थात् वहाँ गया । श्लोकद्वयेन गाङ्गकुण्डचोलपुरं वर्णयति कविः— द्रविडनरपतिप्रतापभीत्या किमपि गते पयसां निधौ परस्तात् । यदविहितविवाहमङ्गलाया बहिरिव निर्गतमादिधाम लक्ष्म्याः ॥२२॥ अन्वयः यत् पयसां निधौ द्रविडनरपतिप्रतापभीत्या किमपि परस्तात् गते (सति) ऽविहितविवाहमङ्गलायाः लक्ष्म्याः आदिधाम बहिः निर्गतम् इव । व्याख्या यद्गाङ्गकुण्डचोलपुरं पयसां जलानां निधावाकरे समुद्रे द्रविडस्य नरपतिर्भूं पस्तस्य प्रतापः प्रभावस्तस्माद्भीतिर्भयं तया चोलदेशनृपभयेन किमपि किञ्चिदपि परस्तात् पृष्ठभागे गते प्राप्ते सति स्वस्थानं विमुच्य किञ्चित्स्थलप्रदेशमपसृते सति न विहितमविहितमसम्पादितं विवाहमङ्गलं पाणिग्रहणोत्सवो यस्याः सा तस्या अपरिणीताया लक्ष्म्याः श्रिय आदिधाम प्रथमगृहं बहिर्निर्गतमिव समुद्राद्बहिरा- गतमिव । गाङ्गकुण्डचोलपुरस्य लक्ष्मीप्रथमगृहत्वेनोत्प्रेक्षणादपरिमितसम्प- त्तिशालित्वञ्च द्योत्यते । अत्रोत्प्रेक्षालङ्कारः । भाषा जो गाङ्गकुण्डचोलपुर द्रविड देश के राजा के प्रताप के भय से (डरकर) समुद्रके कुछ पीछे सरक जाने से, अविवाहित अवस्था में समुद्र में लक्ष्मी के रहने का आदिनिवास स्थान ही मानो बाहर निकल आया था ।