विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 373, कुल 493 में से
संदर्भ में पढ़ें( ३६६ ) अविरततरुणीसहस्रमध्य-स्थितिविगलत्पुरुषव्रता इवैते । प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोऽपि ॥३४॥ अन्वयः एते क्षितीशाः अविरततरुणीसहस्रमध्यस्थितिविगलत्पुरुषव्रताः इव प्रतिपदम् अतिकातराः (सन्तः) समन्ततः अपि भयं परिकलयन्ति । व्याख्या एते इमे दुष्टाः क्षितीशा राजानोऽविरतं सन्ततं तरुणीनां युवतीनां सहस्रं तस्य मध्ये या स्थितिनिवासस्तया विगलत्परिपतत्पुरुषाणां नराणां व्रतं धर्मः पौरुषमित्यर्थः । येषां ते निरन्तरयुवतीसहस्रमध्यस्थित्या नश्यत्पौरुषा इव प्रतिपदं प्रतिक्षणमतिकातरा अत्यन्ततभीतास्सन्तः समन्ततोऽपि परितोऽपि भयं भीतिं परिकलयन्ति परिपश्यन्ति विचारयन्तीत्यर्थः । अत्र तरुणीमध्यस्थितेर्नष्ट- पुरुषबले हेतुत्वेन संभावनादुत्प्रेक्षालङ्कारः । भाषा सदैव हजारो युवतियों के बीच में रहने से मानो जिनका पुरुषत्व ही नष्ट हो गया है, ऐसे ये दुष्ट राजा लोग, पद पद पर अत्यन्त कायर होकर, चारो ओर भय ही देखते हैं । अर्थात् उनको चारो ओर से भय की ही प्रतीति होती है । अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु । हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥३५॥ अन्वयः रक्तपङ्किलेषु समरमहाध्वसु सदा अभिसरणपरा इयं वराकी नृपश्रीः धरणिभुजां हृदि निहितपदा एव कलङ्कम् आतनोति । व्याख्या रक्तेन रुधिरेण पङ्किलाः कर्दमयुक्तास्तेषु समरा युद्धस्थलान्येव महाध्वानो विषममार्गास्तेषु सदा निरन्तरमभिसरणं यानं तस्मिन्पराऽऽसक्ता अभिसारिका या रक्तपङ्किलयुद्धेषु सदा विहरमाणेत्यर्थः । इयमेषा वराकी असन्तुष्टा दुराचारिणी या नृपश्री राजलक्ष्मी धरणिभुजां महीभुजां दुष्टानां राज्ञामित्यर्थः । हृदि