विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 375, कुल 493 में से
संदर्भ में पढ़ें( ३६८ ) भाषा यह राजलक्ष्मी पास में आते ही राजाओं में गुणी को गुणरहित, मित्र को शत्रु और विश्वासपात्रों को अविश्वासपात्र समझने का भाव उत्पन्न कर उनकी बुद्धि में भ्रम उत्पन्न कर देती है। विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कश्चिदेव । इति हृदि न विचारयन्ति भूपाः कुलमपि निर्दलयन्ति राज्यलुब्धाः ३७ अन्वयः भूपाः, इदं विधिलिखितं (यत्) कुटुम्बमध्ये कश्चित् एव नृपतिपदं समुपैति, इति हृदि न विचारयन्ति (किन्तु) राज्यलुब्धाः (सन्तः) कुलम् अपि निर्दलयन्ति । व्याख्या भूपा राजान, इद वक्ष्यमाणं वस्तु विधिना ब्रह्मणा लिखित लेखद्वारा संघटित, यतो लिखितमेव निश्चित भवति न तु भाषितम् । यत् कुटुम्बमध्ये कश्चिदेव भाग्यशाली जनो नृणां पतिर्नृपतिः स्वामी तस्य पद स्थानं राज्यपदवीं समुपैति संप्राप्नोतीति विषय हृदि मानसे न विचारयन्ति न परिशीलयन्ति किन्तु राज्ये राजपदे लुब्धा लोलुपास्सन्तः कुलमपि स्ववंशमपि निर्दलयन्ति विनाशयन्ति । स्वायोग्यतया स्वकीर्तिमन्तमपि वंशमपकीर्त्या कलङ्कयन्तीति भावः । भाषा राजा लोग यह नहीं विचार करते कि यह ब्रह्मा का लेख है कि कुल में (सब नहीं, किन्तु) कोई ही राजपद को प्राप्त करने योग्य होता है। किन्तु राज्य के लोभी बनकर ये राजा लोग अपने कुल को भी कलङ्कित कर डालते हैं । अनुचितममुना किमग्रजस्य व्यवसितमुन्नतचेतसा यदस्मिन् । अपकरणधिया चकार सन्धिं कुलरिपुणा सह चोलराजीगेन ॥३८॥ अन्वयः उन्नतचेतसा अमुना अग्रजस्य अनुचितं किं व्यवसितं यत् (सः) अस्मिन् अपकरणधिया कुलरिपुणा चोलराजीगेन सह सन्धिं चकार ।