विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 391, कुल 493 में से
संदर्भ में पढ़ें( ३८४ ) भाषा निर्मलचित्त, यशोधन इस राजपुत्र ने पूर्वोक्त कालुष्य रहित बातें धीरे से कह कर कितने प्रार्थना के सन्देश सोमदेव के पास नहीं भेजे । अर्थात् बहुत से प्रार्थना के संदेसे युद्ध में सम्मिलित न होने के लिये भेजे । स तु शपथशतैः प्रपद्य सर्वं वितथवचाः कुलपांसनत्वमाप्तः । क्षणमनुगुणमैक्षत प्रहर्तुं मलिनधियां धिगनाजवं चरित्रम् ॥६१॥ अन्वयः वितथवचाः कुलपांसनत्वम् आप्तः सः तु शपथशतैः सर्वं प्रपद्य प्रहर्तुं अनुगुणं क्षणम् ऐक्षत । मलिनधियां चरित्रं अनार्जवं धिक् । व्याख्या वितथं मिथ्या वचो वचनं यस्य स मिथ्याभाषी कुलस्य गोत्रस्य पांसन- कलङ्कस्तस्य भाव कुलपांसनत्वमाप्तो यशकलङ्कत्वमुपायत स तु सोमदेवस्तु शपथानां शतानि तैश्शपथशपथग्रहणे सर्वं विक्रमाङ्कदेवप्रार्थितं प्रपद्य तथेत्यङ्गी- कृत्य विक्रमाङ्कदेवं प्रहर्तुं मारयितुमनुगुणमनुकूलं क्षणमवसरमैक्षत दृष्टवान् प्रतीक्षते स्मेत्यर्थः । मलिना मलीमसा 'मलोमस तु मलिनं कच्छरं मलदूषितम्' इत्यमरः । धीर्बुद्धिर्येषां ते तेषां मलीमसबुद्धिगता चरित्रं वृत्तमनाजवं कुटिलं कौटिल्यपूर्णमित्यर्थं । इति धिक । अत्राऽर्थान्तरन्यासाऽलङ्कारः । भाषा मिथ्याभाषी, कुलाङ्गारता को प्राप्त यह सोमदेव तो विक्रमाङ्कदेव की प्रार्थनाओं को, सैकड़ों कसमें खा, स्वीकार कर, उसको मार डालने के लिए अनुकूल मौका खोजता था । मलिन बुद्धि वालों के चरित्र को धिक्कार है जो कि सर्वदा कौटिल्यपूर्ण होता है । किमिदमुपनतं यशोविरोधि त्रिदिवगतः किमु वक्ष्यते पिता मे । इति मनसि निधाय जातनिद्रं नृपतनयं शशिमौलिर्रादिदेश ॥६२॥ अन्वयः शशिमौलिः 'यशोविरोधि इदं किम् उपनतं, त्रिदिवगतः मे पिता किमु वक्ष्यते' इति मनसि निधाय जातनिद्रं नृपतनयम् आदिदेश ।