विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 403, कुल 493 में से
संदर्भ में पढ़ें( ३९६ ) अन्वयः मदकरटी रुधिरभृतकपालपङ्क्तिमध्ये विनिपत्य आगतस्य मृत्योः पानपात्रप्रणयिनम् आसवं कर्णतालैः शिशिरम् इव चकार । व्याख्या मदकरटी मदान्धगजो रुधिरेण शोणितेन भृतानि परिपूरितानि कपालानि शिरोऽस्थीनि तेषां पङ्क्तिः श्रेणी तस्या मध्ये विनिपत्य शस्त्रप्रहारेण भग्नस्सन्प्र- पतित्वाऽऽगतस्य गजार्थं समुपयातस्य मृत्योर्यमस्य पानपात्रे चषके प्रणयिनं स्थित- मास्रवं मद्य कर्णतालैः श्रोत्ररूपतालवृन्तैस्तज्जनितपवनैरित्यर्थः । शिशिरमिव शीतलमिव चकार कृतवान् । उत्प्रेक्षालङ्कार । भाषा कोई मदान्धहाथी खून से भरी गण्डस्थल की हड्डियों की कतार के बीच में, चोट खा जाने से गिरकर, उसको लेने को आए हुए यमराज के कटोरो में के मद्य को मानो अपने कानरूपी ताड के पंखे से हवा कर ठण्डा कर रहा था । उपरि निपतितः कपालशुक्तेः श्रवणपुटः करिणः कृपाणलूनः । समरभुवि कृतान्तपानलीलाचषकपिधानविलासमाससाद ॥८०॥ अन्वयः समरभुवि कपालशुक्तेः उपरि निपतितः कृपाणलूनः करिणः श्रवणपुटः कृतान्तपानलीलाचषकपिधानविलासम् आससाद । व्याख्या समरभुवि युद्धभूमौ कपालशुक्तेः शिरोऽस्थिरूपशुक्तेरुपरि निपतितः सम्प्राप्तः कृपाणेन खड्गेन लूनश्छिन्न करिणो कस्यचिद्गजस्य श्रवणपुटः कर्णपुटः कृतान्तस्य यमस्य ‘कृतान्तो यमुनाभ्राता शमनो यमराड्यमः’ इत्यमरः । पानस्य मद्यपानस्य लीलाचषक प्रियपात्र तस्य पिधानमाच्छादनं तस्य विलासं शोभा- माससाद प्राप । निदर्शनालङ्कार । भाषा समराङ्गण में गण्डस्थल की हड्डी रूपी सीपपर, तलवार से कटकर गिरा