विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 405, कुल 493 में से
संदर्भ में पढ़ें( ३९९ ) अन्वयः सुरभिकुशेशयकोशकेलिसक्ता लक्ष्मीः ध्रुवम् अरिषु पदं न्यधत्त। यत् मधुकरमालिकया इव नृपसुतकरवाललेखया चुम्ब्यते स्म। व्याख्या सुरभिः सुगन्धिः 'सुरभिर्घ्राणतर्पण.' इत्यमरः। यः कुशेशयस्य कमलस्य "सहस्रपत्रं कमल शतपत्रं कुशेशयम्' इत्यमरः। कोशः कुङ्मलं 'कोशोऽस्त्री कुडमले खड्गपिधानेऽर्थाघदिव्ययोः' इत्यमरः। तस्मिन्या केलिः क्रीडा तत्र सक्ता संलग्ना लक्ष्मी राज्यलक्ष्मीः, कमलं लक्ष्म्या निवासस्थानमिति हेतोस्तत्र सक्तेत्यर्थः। ध्रुव निश्चयेनार्द्धरिषु शत्रुपु शत्रुशिरःष्वित्यर्थः। पदं स्थानं चरणं वा व्यधत्त कृतवती। यद्यस्मात्कारणान्मधुकराणां भ्रमराणां मालिका समूहस्तया भ्रमरश्रेण्येव नृपसुतो विक्रमाङ्कदेवस्तस्य करवाललेखा कृष्णवर्णा खड्गरेखा तया चुम्ब्यते स्म प्रेम्णा परिचुम्बिता बभूव। यतो मधुकरमालिकेव कृष्णवर्णा खड्गरेखा शत्रुशिरःसु पतति तस्मात् कुशेशयसक्ता लक्ष्मीरवश्यमेव शत्रुशिरःसु पदं व्यधत्त। कमलाभावे मधुकरमालागमनासम्भवादिति भावः। अत्रोत्प्रेक्षालङ्कारः। भाषा सुगन्धयुक्त कमल की कली में क्रीडा करने में आसक्त लक्ष्मी अवश्यमेव शत्रुओं के मस्तकों पर जा बैठी थी। क्योंकि भ्रमर श्रेणी के समान काले रंग की विक्रमाङ्कदेव के तलवार की धार शत्रुओं के शिरों में विद्यमान लक्ष्मी का चुम्बन करती थी। अर्थात् शत्रुओं की गर्दन काटती थी। अनुकृतसमरर्त्तिपानलोला-चषककरालकपालशुक्तिमध्ये। करिदशनपरम्परा निपत्य श्रियमतनोदुपदंशमूलकानाम् ॥८५॥ अन्वयः करिदशनपरम्परा अनुकृतसमरवर्त्तिशनलीला-चषककरालकपालशुक्ति- मध्ये निपत्य ¹उपदंशमूलकानां श्रियम् अतनोत्। ¹ यथा वेणीसंहारनाटके तृतीयाङ्के—"रुधिर प्रिय ! गृहाणैतत् हस्तिशिरः कपालतञ्चितमग्रमासोपदंशं पिव नवशोणितासवम् ।"