विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 408, कुल 493 में से
संदर्भ में पढ़ें( ४०२ ) अन्वयः अमुष्य शत्रुसेनाभटमुखपद्मविमर्दकेलिकालः द्विरदपतिः रणसरः झटिति लक्ष्मीकरधृतविभ्रमपुण्डरीकशेषं चकार। व्याख्या 'अमुष्याऽस्य विक्रमाङ्कदेवस्य शत्रूणामरीणां सेना चमूस्तस्या ये भटा योधा- स्तेषां मुखान्येवाननान्येव पद्मानि कमलानि तेषां विमर्दश्चूर्णनमेव केलिः क्रीडा तदर्थं कालो यमो विनाशकारित्वात्। 'कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः' इत्यमरः। द्विरदपतिर्गजनाथो रण एव सङ्ग्राम एव सरस्तडागस्तत् रणसरो युद्धतडागो झटिति शीघ्रं लक्ष्म्याः श्रियः करेण हस्तेन धृतं धारितं विभ्रमपुण्डरीकं विलाससिताम्भोजं 'पुण्डरीकं सिताम्भोजम्' इत्यमरः। एव शेषोऽवशिष्टोंऽशो यस्य तच्चकार निष्पादितवान्। रूपकालङ्कारः। भाषा शत्रु सेना के योद्धाओं के मुख कमलों को चूर २ कर देने की क्रीड़ा में यमस्वरूप, विक्रमाङ्कदेव के श्रेष्ठ हाथी ने रणरूपी तालाब को जल्दी से महालक्ष्मी के हाथ में विद्यमान विलास का श्वेतकमल मात्र ही शेष रह गया हो, ऐसा कर दिया। अर्थात् लक्ष्मी के हाथ के कमल को छोड़ कर शत्रु के मुख रूपी सब कमलों को रणरूपी सरोवर में नष्ट कर दिया। धृतसुभटकरङ्कमङ्कवर्ति-द्विरदघटाविकटास्थिचक्रवालम् । रणमनणु कृतान्तभुक्तशेष-प्रणयि बभूव शिवासहस्रभोग्यम् ॥८६॥ अन्वयः धृतसुभटकरङ्कम् अङ्कवर्तिद्विरदघटाविकटास्थिचक्रवालं कृतान्तभुक्त- शेषप्रणयि शिवासहस्रभोग्यम् अनणु रणं बभूव। व्याख्या धृता गृहीताः सुभटानां सुयोधानां करङ्का अस्थिपञ्जरा येन तत्। अङ्के क्रोडे वर्त्तीनि गतानि द्विरदानां गजानां विकटानि भयङ्कराण्यस्थिचक्रवाला- न्यस्थिसमूहा यस्य तत्, कृतान्तस्य यमस्य भुक्तं भोजनं तस्य शेषस्तस्य प्रणयि स्थानं शेषयुक्तमित्यर्थः। तद्यमराजभक्षितमांसावशिष्टयुक्तमिति भावः। शिवानां शृगालीनां सहस्रं तेन भोग्यं भोगयोग्यं रणं युद्धमनणु बहुल बभूव जातम्।