विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 411, कुल 493 में से
संदर्भ में पढ़ें( ४०७ ) पर, और आकाश के वायुओ द्वारा लाए हुए जल कणो के मिप से मानो आकाशगङ्गा के जल को छिड़कते रहने पर (विक्रमाङ्कदेव का राज्याभिषेक हुआ ।) अतिविशदतया दिशां मुखेषु स्मितमिव केतकमित्रमुद्वहत्सु । निखिलभुवनमानसेषु हर्ष-प्रसरवशेन नितान्तमुत्सुकेषु ॥६६॥ अन्वयः दिशां मुखेषु अतिविशदतया केतकमित्रं स्मितम् उद्वहत्सु (सत्सु) इव निखिलभुवनमानसेषु हर्षप्रसरवशेन नितान्तम् उत्सुकेषु (सत्सु) (विक्र- मादित्यदेवोऽभिषेकमलभतेत्यन्वयः ।) व्याख्या दिशां ककुभां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । मुखेष्वाननेष्वग्रभागेषु वाऽतिविशदतयाऽतिनैर्मल्येन केतक्यः पुष्पं केतकं तस्य मित्रं शुक्लत्वात्केतकीपुष्पसदृश स्मितमीषद्धास्यमुद्वहत्सु धारयत्सु सत्स्विव, दिक्षु नैर्मल्य प्राप्तास्वित्यर्थः । निखिलभुवनानां सकललोकस्थितजनानां मान- सानि मनांसि तेषु सकललोकगतजनमनःसु हर्षस्यानन्दस्य प्रसरो विस्तारस्तस्य वशेन कारणेन नितान्तमत्यन्तमुत्सुकेषु समुत्कण्ठितेषु सत्सु (विक्रमादित्य- देवोऽभिषेकमलभतेति । ) भाषा दिशाओं के अत्यन्त निर्मल होने से मानो श्वेत केवड़े के फूलों के समान उनके मुस्कराते रहने पर और समस्त लोकों के मनुष्यों के मनों में आनन्द का सञ्चार होने के कारण उनके उत्कण्ठित हो उठने पर (विक्रमाङ्कदेव का राज्या- भिषेक हुआ । ) ऽ वरकरिषु गभीरदुन्दुभीनां ध्वनिमिव संजनयत्सु गर्जितेन । दिशि दिशि तुरगेषु सान्द्रशङ्ख-स्वनकमनीयसहर्षह्रेषितेषु ॥६७॥ अन्वयः वरकरिषु गर्जितेन गभीरदुन्दुभीनां ध्वनिं संजनयत्सु (सत्सु) इव,