विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 413, कुल 493 में से
संदर्भ में पढ़ें( ४०९ ) ऽभवत् सुस्वामिप्राप्त्यर्थचिन्ता तयाऽऽक्रान्ता परिपूर्णा चालुक्यलक्ष्मीश्चालुक्य- राजन्यंशश्रीस्तस्या क्लमं ग्लानिं मृष्णातीति विरचिन्ताशान्तचालुक्यलक्ष्मीमलनमुद् तमभिषेकं राज्याभिषेकमलभत प्राप्तवान् । भाषा युद्ध में विजय प्राप्त होने के अनन्तर राजकुमार विक्रमाङ्कदेव ने, पृथिवी को अच्छा स्वामी मिल जाने से, अपने स्वामियों के पराजय के सम्पूर्ण दुःखों को दूर कर देने वाले, आकाश में गूँजने वाले स्वर्गीय भेरी की ध्वनि से ,युक्त, और चिरकाल तक अच्छे स्वामी (राजा) को प्राप्त करने की चिन्ता में डूबी हुई चालुक्य वंशीय राजाओं की राज्यलक्ष्मी के मनोमालिन्य को दूर कर देनेवाले, राज्याभिषेक को प्राप्त किया । इति पञ्चभिः श्लोकैः कुलकम् । श्रीचालुक्यनरेन्द्रसूनुरनुजं तत्रैव पुण्ये दिने कारुण्यातिशयादसूत्रयदसौ पात्रं महत्याः श्रियः । दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियं तेषामाश्रितपोषशाय गहनं किं नाम पृथ्वीभुजाम् ॥६६॥ अन्वयः असौ श्रीचालुक्यनरेन्द्रसूनुः तत्र पुण्ये दिने एव कारुण्यातिशयात् अनुजं महत्याः श्रियः पात्रम् असूत्रयत् । यद्भवनेषु विक्रमधनक्रीता इयं श्रीः दासी ननु, तेषां पृथ्वीभुजाम् चाश्रितपोषणाय किं नाम गहनम् (अस्ति) । व्याख्या असौ श्रिया विराजितस्य चालुक्यनरेन्द्रस्याऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेवस्तत्र तस्मिन् पुण्ये पावने गुरुवरे वा 'पुण्यं तु पावने' इत्यमरः । दिने राज्याभिषेकदिवस एव कारुण्यस्य दयाया अतिशय आधिक्यं तस्माद्दयापर- वशात्स्वानुजं स्वकनिष्ठभ्रातरं सिहदेवं महत्या विशालायाः श्रियो लक्ष्म्याः पात्रं भाजनमसूत्रयत् कृतवान् । तस्मै वनवासिमण्डलाधीश्वरं चकारेति भावः । येषां राज्ञां भवनेषु सदनेषु विक्रमधनेन पराक्रमरूपद्रव्येण क्रीता, भूत्येव ध्यायती-