विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 419, कुल 493 में से
संदर्भ में पढ़ें( ४१५ ) स्योत्तरदिशि विद्यमानोऽस्ति । 'उत्तरस्यां दिश्युदीच्यामाशायां 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्चताः' इत्यमरः । प्रतस्थे गन्तुमारेभे । रविरुत्तरा- यणोऽभूदिति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा सूर्य अपने रथ के बुड्ढे घोड़ों को बदल देने के लिये मानों श्रेष्ठ घोड़ों के उत्पत्ति स्थान उत्तरदिशा में अर्थात् काबुल में (काबुली घोड़े प्रसिद्ध हैं) प्रस्थित हुआ । अर्थात् सूर्य उत्तरायण होने लगे । अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य । द्राघिष्ठमन्वानमसौ विलङ्घ्य सर्वत्र तस्यानुचरो यदासीत् ॥७॥ अन्वयः अहो नु केरलमारुतस्य चैत्रं प्रति अकृत्रिमा का अपि भक्तिः यत् असौ द्राघिष्ठम् अध्वानं विलङ्घ्य सर्वत्र तस्य अनुचरः आसीत् । व्याख्या "अहो" इत्याश्चर्ये 'नु' इति वितर्के । केरलमारुतस्य दक्षिणस्थकेरलदेश- ग्राहिनः पवनस्य दक्षिणातिलस्येत्यर्थः । चैत्रं चैत्रमासं प्रति बसन्तकालं प्रतीत्यर्थः । अकृत्रिमा स्वाभाविकी काप्यनिर्वचनीयाऽपूर्वेत्यर्थः । भक्तिरनुरागः । यत- स्मात्कारणादसौ दक्षिणादिले द्राघिष्ठमतिदीर्घमध्वानं मार्ग 'अध्वनं वर्त्म मार्गोध्वन्तः पदवी सृतिः' इत्यमरः । विलङ्घ्य समतिक्रम्य सर्वत्र सर्वस्थाने तस्य चैत्रमासस्य वसन्तस्य वाऽनुचरोऽनुगन्ताऽसीत् जातः । वसन्ते दक्षिणाशितः सर्वत्रैव बहतीति भावः । अत्र केरलमारुते सेवकव्यवहारसमारोपात् समासो- क्तिरलङ्कारः । भाषा आश्चर्य की बात है कि केरल के वायु का अर्थात् दक्षिणातिल का चैत्र मास के प्रति अर्थात् वसन्त ऋतु के प्रति एक विलक्षण स्वाभाविक अनुराग है । क्योंकि वह दक्षिण का वायु एक भारी रास्ता तैय कर सर्वत्र चैत्र का अर्थात् वसन्त ऋतु का साथ देता था । अर्थात् वसन्त ऋतु में सर्वत्र दक्षिणाभिल बहता ही है ।