विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 425, कुल 493 में से
संदर्भ में पढ़ें( ४२१ ) रसः शृङ्गाररस एव पार्थिवो राजा तस्य प्रासादानां हर्म्याणां माला पङ्क्तिः । अत्युच्चत्वेन निरतिशयरमणीयत्वेन च दोलाविलासे कामसम्बन्धिविमानसृष्टे- रसनृपसम्बन्धिप्रासादमालायाश्चाऽऽरोपः । चैत्रस्य चैत्रमासस्य सर्वं सकलमृतु- विशेषस्य वसन्तस्य चिह्नं लक्षणं यद्वा चैत्रस्य वसन्तस्य सर्वर्तुभ्यो विशेषं विशिष्टं चिह्नं लक्षणं 'कलङ्काङ्कौ लाञ्छनञ्च चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । यतो वसन्त एव दोलारोहणक्रीडा विशेषतो भवतीति भावः । सुष्ठु दृशौ नयने यासां स्तादृशां सुन्दरनयनाङ्गनानां दोलासु प्रेङ्खासु विलासः क्रीडा रराज शुशुभे । विशेषविनोदकारित्वेन चैत्रमासभवस्य वसन्तर्तुसकलचिह्नस्याऽभेदारोपो दोला- विलासेऽतोऽत्र मालारूपकम् । भाषा कामदेव की विमान रचना, शृङ्गार रस रूपी राजा के महलों की कतार, चैत्र मास का सब ऋतुओं में श्रेष्ठ वसन्तऋतु का चिह्न अथवा वसन्त का अन्य सब ऋतुओं से विशिष्ट चिह्न, सुनयनी स्त्रियों की झूला झूलने की क्रीडा शोभित होने लगी । अर्थात् चैत्र मास या वसन्त ऋतु के आते ही सुन्दर नेत्रवाली कामिनियों में झूला झूलने का उमङ्ग, कामदेव की प्रेरणा से काम सम्बन्धि दूर २ की उनकी मानसिक उड़ानें तथा शृङ्गार रस का साम्राज्य चारोंतरफ छा गया । दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु । त्रुटिर्यदालम्बगुणेषु नाभूत् सा भाग्यशक्तिः कुसुमायुधस्य ॥१६॥ अन्वयः यत् दोलाधिरूढस्य वधूजनस्य नितम्बभारेण गतागतेषु आलम्बगुणेषु त्रुटिः न अभूत् सा कुसुमायुधस्य भाग्यशक्तिः । व्याख्या यदित्यनेन वाक्यार्थपरामर्शः । दोलां प्रेङ्खा 'दोला प्रेङ्खादिका स्त्रियाम्' इत्यमरः । 'हिंडोला' इति भाषायाम् । अधिरूढस्समासीनस्तस्य प्रेङ्खास्थितस्य वधूजनस्य कामिनीजनस्य नितम्बः श्रोणिस्तस्य भारो गुरुत्वं तेन गतामागत- मितस्ततः सञ्चलनं येषां ते तेष्वालम्बगुणेषु दोलावलम्बनरज्जुषु त्रुटिर्भङ्गो नाऽभून्न जात सा कुसुमायुधस्य कामस्य भाग्यशक्तिरदृष्टमहत्त्वम् । ललनानि-