विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
DevanagariSanskritpublished493 पृष्ठ
पृष्ठ 443, कुल 493 में से
संदर्भ में पढ़ेंपृष्ठ 443
( ४३९ ) व्याख्या दक्षिणमारुतेन मलयानिलेन पदे पदे स्थाने स्थाने मत्तस्य मदान्धस्य चैत्र एव द्विरदो गजः ‘दन्ती दन्तावलो हस्ती द्विरदोऽनेकपोगजः' इत्यमरः। तस्याऽ- क्षूणहेतोरक्षूण१ विश्रामः सततपरिश्रमेण समागतक्लान्तिरूपन्यूनताया दूरीकरणार्थं विश्रान्तिरित्यर्थः। स एव हेतुः कारणं तस्मात् पासवो धूलय एव तल्पानि शय्याः ‘तल्पं शय्यादृदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्' इत्यमरः। तानि कर्तुमिव विधातुमिव पुष्पाणां कुसुमानां परागस्य रजस पुञ्जास्समूहा राशीकृता एकत्री- कृता। वसन्ते परागस्याऽऽधिक्यं भवति स च मलयमारुतवेगेनेकत्रीभवति श्रम- निवारणार्थं मत्तचैत्रगजस्य तल्पताञ्च प्राप्नोतीति भावः। भाषा दक्षिणानिलने स्थान स्थान पर मदोन्मत्त चैत्र रूपी हाथी के विश्राम के निमित्त धूलि की कोमल शय्या बनाने के लिये मानो पुष्प की धूलि को एकत्र किया। लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः कुसुमं नवीनम् । आसादयामास वसन्तमास-जन्मोत्सवे मङ्गलशङ्खलीलाम्२ ॥४१॥ अन्वयः वसन्तमासजन्मोत्सवे लग्नद्विरेफध्वनिपूर्यमाणं वासन्तिकायाः नवीनं कुसुमं मङ्गलशङ्खलीलाम् आसादयामास। व्याख्या वसन्तमासस्य मधुमासस्य जन्मन उत्सवतस्मिन्, लग्नाः संश्लिष्टा द्विरेफा
१ सन्नामु धातुरूपाणि प्रत्ययाश्च तत परे । कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥ 'क्षू' गतो--आदादिकधातोर्भावे क्तङ् प्रत्यये बाहुलकाद्दीर्घे नञ्समासे 'अक्षूण' शब्दो निष्पन्न । न क्षूणमक्षूण गत्यवरोधो विश्राम इत्यर्थ । २ उक्त साहित्यदर्पणे— मल्लिकासुकुले चण्डि ! भाति गुञ्जन्मपुव्रत । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥