भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 463, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 463

( ४६० ) मधुपानां भ्रमराणां यध्यः कान्तास्तासां केलयः क्रीडास्तासु गण्डूषा मुखपूर्तयः 'गण्डूषो मुखपूर्तौ स्यात्' इति हैमः । तेषां योग्यं तदर्थं पर्याप्तं सन्नद्धं प्रगुणीभूतं समागतम् । माधवीलतासु मकरन्दाधिक्यं जातमिति भावः । दाक्षिणात्या दक्षिणदिशात आगता मरुतो मलयानििलाः श्रमेण दूरदेशागमनपरिश्रमेण क्वचिदपि कुत्रापि क्षणमपीषत्कालपर्यन्तमपि न विश्राम्यन्ति विश्रान्ति न काङ्क्षन्ति । अलिनां भ्रमराणा कृते कौसुमा. पौष्पाः पांसुकूटा धूलिसमूहाः प्रतिकलं प्रतिक्षणं क्रीडा- शैलीभवन्ति लीलापर्वतीभवन्ति लीलापर्वत इवाऽऽचरन्तीति भावः । अभूततद्भावे च्च्विः । तत्तस्मात् कारणात् पुष्पाण्येव कुसुमान्येवाऽस्त्राणि शरा यस्य स पुष्पबाणः कामस्तस्य मित्रं सखा तस्मिन् चैत्रे वसन्ते विद्यमाने सतीहाऽस्मिन् जगति विरहिणां वियोगावस्थापन्नानां स्त्रीपुंसां जीवितस्य जीवनस्याऽऽशा कीदृशी किमिति । न जीवनाशेति भावः । अर्थापत्तिरलङ्कारः । स्रग्धरावृत्तम् । "म्रभ्र्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” इति लक्षणात् । भाषा वासन्ती लताओं में मकरन्द, भौरियों के लीलागत कुल्ला करने के योग्य तयार हो गया है । दक्षिण दिशा से बहने वाले मलया निल, थकावट से कहीं भी विश्राम नहीं लेते है अर्थात् लगातार बहते ही रहते हैं । भौंरों के लिये पुष्पधूलि के ढेर प्रतिक्षण क्रीडापर्वत का काम करते हैं । इसलिये कामदेव के मित्र वसन्त के आने पर वियोगियों के जीते रहने की आशा कैसी ? अर्थात् ऐसे समय में वियोगियों का जीते रहना सम्भव नहीं है । पुष्पैर्भ्राजिष्णुभस्त्राकरणिमगणितैः शाखिनः के न याता- श्चञ्चन्निस्त्रिंशलेखामयमिव भुवनं भृङ्गमालाभिरास्ते । त्रैलोक्याकाण्डचण्डप्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पेशोर्जैत्रशस्त्रव्यतिकरविधये साधु सजो वसन्तः ॥६८॥ अन्वयः के शाखिनः अगणितैः पुष्पैः भ्राजिष्णुभस्त्राकरणि न याताः । भृङ्ग- मालाभिः भुवनं चञ्चन्निस्त्रिंशलेखामयम् इव आस्ते । त्रैलोक्याकाण्डचण्ड- प्रहरणनिबिडोत्साहकण्डूलदोष्णः पुष्पेशोः जैत्रशस्त्रव्यतिकरविधये वसन्तः साधु सज्जः ।

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक) · पृष्ठ 463, कुल 493 में से · BharatKosha