विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 467, कुल 493 में से
संदर्भ में पढ़ें( ४६३ ) अन्वयः - मलयगिरिसमीराः सिंहलद्वीपकान्तामुखपरिचयलब्धस्फारकपूरवासाः द्रविडयुवतिदोलाकेलिलोलन्नितम्बस्थलशिथिलितवेगाः (सन्तः) सेव्यताम् आप्नुवन्ति। व्याख्या मलयगिरिसमीरा मलयाचलानिलाः सिंहलद्वीपस्य 'सीलोन' इति ख्यातस्य कान्ताः स्त्रियस्तासां मुखान्येवाननानि तेषां परिचयः सम्पर्कस्तस्माल्लब्धः प्राप्तः स्फारो बहुलः कर्पूरस्य वासः सुगन्धो यैस्ते, द्रविडयुवतीनां चोलदेशाङ्गनानां दोलाकेलयः प्रेङ्खाक्रीडास्तासु लोलन्तश्चलन्तो नितम्बा एव स्थलानि तैस्तत्सङ्घटने- नित्यर्थः । शिथिलितः शिथिलीकृतो वेगो जवो 'वेगः प्रवाहजवयोरपि' इत्यमरः । येषां ते तथा सन्तः सेव्यतां ग्राह्यतामाप्नुवन्ति लभन्ते । मलयाचलानिलाः सिंहलद्वीपनारीमुखसम्पर्कात् कर्पूरगन्धयुक्ताश्चोलदेशाङ्गनानां दोलाक्रीडासु लोलनितम्बसङ्घटनात् शिथिलीकृतवेगास्सन्ताचन्दनजन्यं शैत्यं कर्पूरजन्यं सुगन्धं नितम्बसङ्घटनजन्य मन्दत्वञ्च वायूनां शीतलसन्दसुगन्धेति गुणत्रयं धारयन्तः सेव्या भवन्तीति भावः । मालिनीच्छन्दः । उदात्तालङ्कारः । भाषा मलयाचल के पवन, सीलोन की अङ्गनाओ के मुखो के सम्पर्क से कर्पूर की सुगन्ध को धारण कर और चोलदेश की कामिनियो के रसयुक्त झूला झूलने में चञ्चल नितम्बस्थलो से टकरा कर मन्दगति होने से सेवनीय हो गये थे । अर्थात् दक्षिणानिल, चन्दन का शैत्य, कर्पूर का सुगन्ध और नितम्बो की टक्कर से मन्द गति, एव शीतल, मन्द व सुगन्ध इन तीनो वायुओ के गुणों से युक्त होने से सेवनीय हो गये थे । पानीयं नालिकेरीफलकुहरकुहूत्कारि कङ्कोल्यन्तः कावेरीतीरतालद्रुमभरितसुराभाण्डभाङ्कारचण्डाः ॥ उन्मीलन्नोलमोचापरिचयशिशिरा वान्त्यमी द्राविडीनां कर्पूरापाण्डुगण्डस्थललुलितिरया वायवो दाक्षिणात्याः ॥७१॥ अन्वयः नालिकेरीफलकुहरकुहूत्कारि पानीयं कङ्कोल्यन्तः, कावेरीतीरतालद्रुम-