विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 52, कुल 493 में से
संदर्भ में पढ़ें( २७ ) व्याख्या (प्रत्यूषे) निजवल्लभायाः स्वप्रियायाश्चाटुषु चाटुकरणेषु प्रेमालापादिव्य- हारेषु समुत्सुकः समुत्साहितश्चक्रवाकः कोकः 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वय नामकाः, इत्यमरः । अन्योन्यस्य परस्परस्य यद्विश्लेषणं वियोगस्तस्य यन्त्रसूत्रं तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र- सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षऽऽकृष्टवान् । रात्रौ चक्रवाक- मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व- प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवास्मद्रात्रिवियोगकारणमिति भ्रमावतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल- सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति- पादनादुत्प्रेक्षालङ्कारः । भाषा (प्रात काल हो जाने पर, रातभरके वियोग के अनन्तर सयोग होने से) अपनी स्त्री चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानो परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है ।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन । बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी- वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे । व्याख्या अर्घ्यस्य पूजोपचारमिश्रितजलस्य 'यत् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि' इत्यादिरमरः । अर्पणे प्रदाने तत्पराणां लग्नानां सिद्धाङ्गनानां देवयो-