विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 92, कुल 493 में से
संदर्भ में पढ़ें( ६९ ) व्याख्या : यस्य राज्ञः कृपाण खड्गो यत्कृपाण आहवमल्लदेवस्य राज्ञः कृपाणः दीप्तो ष्तम्णन्य प्रतापानलः प्रतापस्याग्निस्तस्य सन्निधानात्सामीप्यात्पिपासा जलं तुमिच्छा विभ्रद्धारयन्निव प्रमारस्य पारमारसञ्ज्ञकराजवंशस्य ये पृथ्वीपतयो राजानस्तेषा कीर्तिधारा यश प्रभारूपामुदारा महतीं धारा धारानगरीरूपां लधारा कवलोचकार जग्राह । धाराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्नियानप्रयुक्तपिपासाधारणस्य हेतृत्वेनोत्प्रेक्षणा- द्धेतूत्प्रेक्षा । भाषा : जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानो प्यासी होकर परमारवंश के राजाओ की कीर्ति की जलधारा रूपी उन्नत धारानगरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओ की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया । अगाधपानीयनिमग्नभूरि-भूसृत्कुटुम्बोऽपि यदीयखड्गः । भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥६२॥ अन्वयः अगाधपानीयनिमग्नभूरिभूसृत्कुटुम्बः अपि यदीयखड्गः भाग्यक्षयात् मालवभर्तुः एकां धारां परिहर्तुं ईशः न आसीत् । व्याख्या अगाधेऽपरिमित्रेऽत्यन्ततीक्ष्णे च पानीये जले खड्गधाराजले च निमग्नमन्तर्गत नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञा कुटुम्ब समूहो यशश्च यस्यैवं भूतोऽपि यदीयखङ्गो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मोलवाधीशस्य भोजस्यैकां बेयलामद्वितीयां वा धारा जलधारा धारानगरी च परिहर्तुं त्यक्तुं क्षमस्समर्थो नाऽऽसीत् । यथेन्द्रस्यवप्रहारभीता पर्वता समुद्रस्याऽगाधपानीयै निमग्नास्तथैव यदीयखङ्गागाधधाराजले भूरि राजानो निमग्ना सवृता इत्यर्थ । एवमगाधजलधारासमृद्धोऽपि खड्गो धारानगर्या दौर्भाग्याल्लुब्ध इवै कजलधारा- स्यामद्वितीयाधारानगरीं त्यक्तुं समर्थो नाऽभवदित्यर्थः । बहुमुद्रासम्पन्न एकमुद्रायं न प्रयतते इति लोके प्रसिद्धम् । तथापि दौर्भाग्यात्तस्य सम्भवति ।