विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 94, कुल 493 में से
संदर्भ में पढ़ें( ७१ ) हंसी को (पति वियोग से) उदास कर दिया । अर्थात् भोजराजा की कीर्ति को भी कलङ्कित कर दिया । भोजक्ष्मापालविमुक्तधारा-निपातमात्रेण रणेषु यस्य । कल्पान्तकालानलचण्डमूर्तिश्चित्रं प्रकोपाग्निरवाप शान्तिम् ॥६४॥ अन्वयः यस्य रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्निः भोजक्ष्मापाल- विमुक्तधारानिपातमात्रेण शान्तिम् अवाप (इति) चित्रम् । व्याख्या यस्य राज्ञो रणेषु युद्धेषु कल्पान्तस्य प्रलयस्य यः कालानलः सर्वभस्म- सात्कारिप्रचण्डाग्निस्तद्वच्चण्डोग्रा मूर्तिः स्वरूपं यस्य सः 'संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो नृपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति चित्रमद्भुतम् । यथा जल- धारयाऽग्निः शान्तिमेति तथैव धारानगरीविजयेन राज्ञ क्रोध शान्तिमगादित्यर्थः । कल्पान्तकालानलेन प्रकोपाग्नेस्सादृश्यादुपमालङ्कारः । श्लिष्टेन धारापदेन जल- धाराया धारानगर्याः खङ्गधारायाश्च ग्रहणादत्र श्लेषोऽलङ्कारः । यथा प्रल- याग्निर्भोजनृपविसृष्टजलधारानिपातमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसदृशप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्ग-धारारूपधारानलेन न शान्तिमाप्तुं प्रभवति परञ्चाऽत्र स शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शेन विरोधपरिहार इति विरोधाभासालङ्कारः । भाषा जिस राजा की, युद्धों में प्रलय कालीन आग के भयंकर स्वरूप वाली क्रोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पडते ही ठंढी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज द्वारा त्यक्त धारा नगरी के अध पतन से अर्थात् उसको जीत लेने से शान्त हुआ । यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि । तत्कीर्तिभिः क्षालयति स्म शश्व-दखण्डतारापतिपाण्डुराभिः ॥६५॥