विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 96, कुल 493 में से
संदर्भ में पढ़ें( ७३ ) र्त्तिविनिमयो वोऽर्थानां स्यात्समासोक्तिरिति लक्षणात् । धारा शब्दस्य धारानगरी, खड्गधारा जलधारा चेत्यर्थत्रयबोधाच्छ्लेषोऽलङ्कार, अतः सङ्कर । भाषा जिस राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य मदोन्मत्त हो गई थी ! क्यों कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारो धाराओ को बहाया । शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोऽपि । ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥ अन्वयः मध्यमचक्रवर्ती क्रमात् अनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके पदे अपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न अयासीत् । व्याख्या मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौम क्रमात्परि- पाट्याऽनेकेष्वश्वमेधेषु क्रतुषु यज्ञेषु दीक्षित सञ्जातदीक्ष यो राजा ऐन्द्रात्पदादिन्द्र- पदापेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थानेऽपि तिष्ठन्तमासीनः शतक्रतोरिन्द्रस्य शङ्कास्पदता सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतक्रतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनार्थं ब्रह्मा प्रार्थित आसीत् । शङ्काकारणसत्त्वेऽपि शङ्कारूपकार्याभावप्रतिपादनाद्विशेषोक्तिरलङ्कारः । भाषा पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह चालुक्य वंश ब्रह्मा ने उत्पन्न किया था ।) चिन्तामणिर्यस्य पुरो वराकस्तथाहि वार्ता जनविश्रुतेयम् । यत्तत्र सौवर्णतुलाधिरूढे चक्रे स पाषाणतुलाधिरोहम् ॥६८॥