विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 98, कुल 493 में से
संदर्भ में पढ़ें( ७५ ) व्याख्या यो नृपो भयेन राज्ञो भीत्या मशकरामानं मशकवदल्परूपं विधाय निर्माय क्वचन कस्मिंश्चित्कोणे स्थितस्याऽप्रभानमपायुत्य विद्यमानस्य कलेः कलिपुतस्यो- त्सारणकारण्येनाऽपसारणार्थं दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैर्भुवनं जगद्भू- रोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थं यथा मशकनिवारणार्थं धूमश्च क्रियत इत्याचारः । अत्र क्लेशोत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे- नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा जिस राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानो यज्ञो के धूएँ से पृथ्वी को छा दिया । (मच्छरो को भगाने के लिए धूवाँ किया जाता है ।) स्वाभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविघातहेतोः । यस्मिन्परित्रस्त इति क्षितीन्द्रे क्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥ अन्वयः कलिः यस्मिन् क्षितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः दृष्टिविघातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप । व्याख्या कलिः कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिका- दुष्णा गभस्तयो यस्य स उष्णगभस्ति सूर्यस्तस्य भास इव भास प्रभा ‘स्युः प्रभाप्रभाविस्त्विडभा भाश्छविद्युतिदीप्तयः' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति क्षत्र क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मण क्षात्रतेजसो दृष्टेर्विघात इति दृष्टिविघात दृष्टिविनाशस्तस्य हेतो कारणात् परित्रस्तो भयभीत इति हेतुना क्षण क्षणमात्रमपि कटाक्ष स्वापाङ्गदर्शन 'अपाङ्गे नेत्रयोरन्ते कटाक्षोऽपाङ्ग- दर्शने' इत्यमरः । न चिक्षेप न प्रसारयामास । अत्र क्षत्रोष्मण उष्णगभस्तिना सूर्येण सादृश्यप्रतिपादनादुपमालङ्कारः । भाषा स्वाभाविक सूर्य के समान तेज वाले क्षत्रिय तेज से, दृष्टिनाश होने के भय