विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 112, कुल 168 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ९५ (एतदेव नर्तित्वा वरण्डिकोपगत्य जानुभ्यां स्थिता ।) भवति, त्वां कामिनो मदनदूतिमुदाहरन्ति मानावरोहनिपुणं त्वममोघमस्त्रम् । तामानय प्रियतमां मम वा समीप- र्म्मा वा नयाशु कलभाषिणि यत्र कान्ता ॥ २५ ॥ (वामेन किंचिदुन्नता । आकाशे ।) किमाह भवती । कथं त्वामे- वमनुरक्तं विहाय गतेति । शृणोतु भवती । कुपिता नु न कोपकारणं सकृदप्यात्मगतं स्मराम्यहम् । प्रभुता रमणेषु योषितां नहि भावस्खलितान्यपेक्षते ॥ २६ ॥ (ससंभ्रममुपविश्य अनन्तरं जानु वा स्थिता 'कुपिता' इति पठित्वा विलोक्य च ।) कथं कथाविच्छेदकारिणी स्वकार्य एव व्यासक्ता । महदपि परदुःखं शीतलं सम्यगाहुः प्रणयमगणयित्वा यन्ममापद्रुतस्य । अधरमिव मदाधा पातुमेषा प्रवृत्ता फलमभिनवपाकं राजजम्बूद्रुमस्य ॥ २७ ॥ वा । 'परभृते परपुष्ट इत्यर्थेऽथ परभृतः परपुष्टा वा' इत्यमरः । यद्वा मधुपदे पुष्ट इत्येव पदम् । मधुना पुष्परसेन परमन्यन्तं पुष्टे इत्यर्थः । मधुमदा वाग्घो दुहति वा मधा वसान्त इति वा ॥ २४॥ एतदिति । वरण्डिकामुपविश्येत्यर्थः । तथा च संगीतकौमुद्याम्- वसतिको तदन्त स्थादिति ज्ञान्देश्या । शंङ्खाला रामदेहायां शृङ्गारे वापरण्योनिता ॥ इति ॥ त्वामिति । मन्दस्य मन्मथस्य दूतिमुदाहरन्ति वदन्ति । दूतेनूतौ च दूतीका इति रूपविस्तारोऽपि ॥ २५ ॥ वामेन किञ्चिदुन्नतेति । वामेन पार्श्वेनापसरनन्तरं केही सौव नवि- रूपः । तदुक्तम्- मुक्तेन शिरसा यस्तु पार्श्वेन भ्रमितश्च सः । स्तूयाकं वै करणं पार्श्वसभ्रान्तयोजने ॥ इति ॥ आकाश इति । कि नवीषीत्यादिनि दिश्यन्त प्रदीति रूपः । मु देत्यनुक्तनं केवलस्व हस्तदक्षतवि मुः ॥ इति दण्डवदनी । कुपितेति । अनुक्तं नै कै । हि यतः । रमणेषु प्रियेपु योषितां स्त्रीणां प्रभुता प्रभुत्वं भावस्खलितान्यभिप्राय दोषादि नैवापेक्षतेऽपेक्षते । अभिप्रायस्वरूपाभावे च कुपिता विभुतात्त्वभावत इति भावः ॥ २६ ॥ महदपीति । लोके हि महदपि परकीय दुःखं सर्वं शीतलं शीतलं सम्यगाहुः ।