विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 128, कुल 168 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ११५ (नेपथ्ये ।) वत्स, गृह्यतां गृह्यताम् । संगमनीयो मणिरिह शैलसुताचरणरागयोनिरयम् । आवहति धार्यमाण संगममाशु प्रियजनेन ॥ ६४ ॥ राजा-(ऊर्ध्वमवलोक्य।) को मामनुशास्ति । (विलोक्य।) कथं भगवान्मृगराजधारी । भगवन्, अनुगृहीतोऽस्म्यमुनोपदेशेन । (मणिमादाय ।) अहो संगममणे, तया वियुक्तस्य निमग्नमध्यया भविष्यसि त्वं यदि संगमाय मे । तत करिष्यामि भवन्तमात्मन शिखामणि बालमिवेन्दुमीश्वरः ॥ ६५ ॥ (परिक्रम्यावलोक्य च ।) अये, किं नु खलु कुसुमरहितामपि लतामिमां पश्यतो मया रतिरुपलभ्यते । अथवा स्थाने मम मनो रमते । इयं हि— तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद्विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुलिहां शब्दैर्विना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ ६६ ॥ यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयी भवामि । १ एए पेक्ख विणु हिअए भमामि जइ विहिजोएण पुणि तहि पाविसि । १ एते प्रेक्षस्व विना हृदयेन भ्रमामि यदि विधियोगेन पुनस्तां प्राप्स्यामि । रुद्राक्षवृक्षरूपधरेण सुमेरुशिखावासिना शुकश्रेष्ठेनाख्याम् । अभूदरत रुन्ध्याद्रि- र्म्या ॥ ६४ ॥ संगमनीय इति । संगमनीयसंज्ञा। आवहति करोति० ॥ ६४ ॥ तदयमिति । निमग्नमध्ययाऽतिसूक्ष्मावलग्नया ॥ ६५ ॥ तन्वीति । चण्डी कोपना । चण्डी तु कार्तिकी हिंस्त्रा कोपनाऽथिरिति सागरः ॥ ६६ ॥ ततो द्रुतपद—एए पेक्खेति । वि० ११