विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 164, कुल 168 में से
संदर्भ में पढ़ेंउत्तर-भागः ऽ ऽ पञ्चमोऽङ्कः। १००-२४ (रा... १४१ राजा—अत परमपि प्रियमस्ति । यदि भगवान्पाकशासन प्रसाद करोतु । तत (भरतवाक्यम् ) परस्परविरोधिन्योरेकाश्रयदुर्लभम् । संगत श्रीसरस्वत्योर्भूयादुद्भूतये सताम् ॥ २४ ॥ अपि च । सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु । सर्व कामानवाप्नोतु सर्व सर्वत्र नन्दतु ॥ २५ ॥ (इति निष्क्रान्ता सर्वे ।) पञ्चमोऽङ्कः । समाप्तमिदं श्रीकालिदासकृत विक्रमोर्वशीय नाम त्रोटकम् । इन्द्र ॥ परस्परति । सेत्रय आश्रय । संगत मिलनम् । उद्भूतवे उत्कृष्टभूत्यै ॥ २४ ॥ सर्व इति । दुर्गाणि दुःखानि । भद्राणि कल्याणानि । सर्वोऽयं शिव भद्र कल्याणम् इत्यमर । कामानभिलाषान् । 'कामोऽभिलाष' इत्यमर । सर्वत्र सर्वस्मिन्स्थले सर्वस्मिन्काले च नन्दत्वानन्दं प्राप्नोतु ॥ २५ ॥ धीरित्र्यम्बकवद्यभूषणमणि धीताननद्यात्मज धीमद्दीक्षितरङ्गनाथविबुधो धीरो धराधिश्रुतः । धीनारायणबालकृष्णकृतिनो ज्येठे तनूजा स्फुर द्विद्वत्संरिकरीद्रकुम्भरणीधैवारिपञ्चाननौ ॥ सर्वतन्त्रस्वतन्त्रधीबालकृष्णतनूद्भवः । धीवेणीमाधवाद्यरङ्गनाथाभिधौ सुतौ ॥ व्योमकेशपुरभेदनवादी जानकीशपदपद्ममिलिन्दः । रङ्गनाथ इममाशु वितने प्रीतये रघूवरस्य निबन्धम् ॥ कृतेयं विक्रमोर्वश्या रङ्गनाथमनीषिणा । [L28: प्रकाशिका कायिकान्ति पत्तनेषु प्रकाशताम् ॥ प्रेक्षाविशेषमधनेन वितन्त्रदात्रा भूत्वा परोपकृतये विबुधेश्वराणाम् । साहित्यसागरत एष समाचरंश्च ग्रन्थं सुधाधिकरसं किल रङ्गनाथः ॥