विक्रमोर्वशीयम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Vikramorvashiyam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 50, कुल 168 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः । ४७ राजा—वयस्य, अङ्गुलीस्वेदेन मे लुप्यन्तेऽक्षराणि । धार्यता- मयं स्वहस्ते निक्षेपः प्रियायाः । विदूषकः — (गृहीत्वा ।) तदो किं तत्तभोदी उवसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि । उर्वशी—हला, जाव उवत्थाणकादरं अत्ताणअं समवस्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुण्हं तं भणाहि । चित्रलेखा—तहा । (इति तिरस्करिणीमपनीय राजानमुपगत्य ।) जेदु जेदु महाराओ । राजा—(संभ्रमादरनम्रया) स्वागतं भवत्यै । (पार्श्वमवलोक्य ।) भद्रे, न तथा नन्दयसि मां सख्या विरहिता तया । सङ्गमे दृष्टपूर्वव यमुना गङ्गया यथा ॥ १४ ॥ चित्रलेखा—णेन पच्छ महाराह दीसदि, पच्छा विज्जुल्लदा । विदूषकः —(अपवार्य ।) केट्ट णं एसा उवसी उवगदा । तत्तभोदीए उव्वसीए सहअरीए प्पहाए होदव्वम् । १ ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवादयिष्यति । २ सखि यावदुपस्थानकातरमात्मानं समवस्थापयामि तावत्त्वमात्मानं दर्शयित्वा यन्ममानुगुणं तत्भण । ३ तथा । जयतु जयतु महाराजः । ४ नेनं पश्चान्महाराजो दृश्यते पश्चाद्विद्युल्लता । इयं ततो वा । ततो वा । वयं रङ्गावस्थया मन्तव्यम् ।