वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 103, कुल 490 में से
संदर्भ में पढ़ेंऐतरेयब्राह्मणोक्तो राजाभिषेकः । १०५ दिवं मर्त्य इव हस्ताभ्यां नोदापुः पञ्च मानवाः ॥ इत्येतं ह वा ऐन्द्रं महाऽभिषेकं बृहदुक्थ ऋषिर्दुर्मु- पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन् विद्यया समन्तं सर्वतः पृथिवीं जयन् परीयायैतं ह वा ऐन्द्रं महाभिषेकं वासिष्ठः सात्यहव्योऽत्यरातये जान- न्तपये प्रोवाच तस्मादत्यरातिर्जानन्तपीराजा सन् विद्यया स- मन्तं सर्वतः पृथिवीं जयन् परीयाय स होवाच वासिष्ठः सात्यह- व्यो ऽजैषीर्वे समन्तं सर्वतः पृथिवीं महन्मा गमयेति स होवाचा- त्यरातिर्जानन्तपिर्यदा ब्राह्मणोत्तरकुरूञ्जयेयमथ त्वमुहैव पृथि- व्यै राजा स्याः सेनापतिरेव तेऽहं स्यामिति स होवाच वासिष्ठः सात्यहव्यो देवक्षेत्रं वैतन्न वै तन्मर्त्यो जेतुमर्हत्यद्रुक्षो वै म आ त इदं दद इति ततो हात्यरातिं जानन्तपिमात्तवीर्यं निःशुक्र- मामित्रतपनः शुष्मिणः शैब्यो राजा जघान तस्मादेवंविदुषे ब्राह्मणायैवं चक्रुषे न क्षत्रियो द्रुह्येन्नेद्राष्ट्रादवपद्येयन्नेद्वा मा प्राणो जहादिति जहादिति । ( पं० ८ अ० ४ खं० २३ ) उक्तं महाभिषेकं पुरा शिष्टाचारोदाहरणेन प्रशंसति-एते- नेति । तुरो महर्षिः । सर्वतः,सर्वासु दिक्षु। समन्तं समुद्रपर्यन्तम्, जयन् । अस्य वृत्तान्तस्य वैदिकैर्यज्ञगाथा गीयते-आसन्दीति । आसन्दीवति देशविशेषे । देवेभ्यो देवतार्थम् । धान्यादं, धान्य- मत्ति तम् । रुक्मिणं ललाटगश्वेतलाञ्छनवन्तम् । हरितस्रजं हरितवर्णदेहम् । सारं,कर्मसु श्रेष्ठं यागं गच्छतीति सारङ्गः । अन- याऽभिषेकमाहात्म्यमुक्तम् । न मेति । मा माम् । मर्त्यो मनुष्यः । दिदासित्थ दातुमिच्छसि । निमङ्क्ष्ये, मज्जनं करिष्ये । मोघो व्यर्थः । आस बभूव । सङ्गरः प्रतिग्रहः । एतेन अभिषेकमहिम्ना । मरुत इति । मरुतो देवाः । परिवेष्टारः,परिवेषणकर्तारो भूत्वा अवसन् । १४