वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 11, कुल 490 में से
संदर्भ में पढ़ेंवंशवर्णनम् । ६ शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणा- नुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि ॥ संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ मज्जन् ब्रह्मणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ॥२६॥ नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा वेदध्वानविधूयमानदुरिता लोका विशोका बभुः ॥ राजनीतिनिरीतिरीति पितरीवोर्वीमिमां शासति श्रीमद्वीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ॥ २७ ॥ सङ्ग्रामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठै- श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोधावटैः ॥ भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम्॥२८॥ तावद्वीरगभीरहुङ्कृतिरवस्तावद्गजाडम्बर- स्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि ॥ तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ॥ २९ ॥ अयं यदि महामना वितरणाय धत्ते धियं भियं कनकभूधरोऽञ्चति ह्रियं च कर्णोऽटति ॥ दधीचिरपचीयते बलिरलीकरूपायते- तदाऽतिमलिनायते स किल कल्पभूमीरुहः ॥ ३० ॥ प्रासादारामतडागनागमणिभूदानादिनानातपः- प्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्मेशविष्णुस्थली ॥ प्राचण्ड्येन जिता मिता वसुमती कोदण्डदोर्दण्डयो- र्ज्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ॥ ३१ ॥ ब्रह्माभूच्चतुराननः स्मरहरः पञ्चाननः षण्मुखः