वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 22, कुल 490 में से
संदर्भ में पढ़ें१६ वीरमित्रोदयस्य राजनीतिप्रकाशे षिद्रुत इति क्वचित्पाठः । विद्रुते धर्मात्प्रचलिते । सप्तम्यन्तात्त- सिः । चक्षुर्धर्मस्य सर्वस्येति मेधातिथौ पाठः । तदा भयाद्धर्म- भयात् धर्मस्य चक्षुर्द्रष्टारं प्रवर्त्तकमितियावत् । राजा धर्मस्य कारणमितिवचनात् । इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ अनिलो वायुः । वित्तेशः कुबेरः । मात्रा अंशान् । निर्हृत्य निष्कास्य । शाश्वतीः सारभूताः स्थिरा वा । तथा— बृहतपराशरोऽपि, सुत्रामानलवायूनां यमस्येन्दोर्विवस्वतः । वारिवित्तेशयोर्ब्रह्म मात्राभ्यो निर्ममे नृपम् ॥ इति । तत्रैवेशानमात्राप्यधिकोक्ता । इन्द्राग्नियमवित्तेशवारीशमातरिश्वनाम् । शीतांश्वीशानदात्राश्च ब्रह्मादायासृजन्नृपम् ॥ इति । मनुः यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादतिभवत्येष सर्वभूतानि तेजसा ॥ यस्मादेषां देवश्रेष्ठानामिन्द्रादीनां मात्राभ्योऽंशसमुदायेभ्यो- ऽशान् सारभूतान्निर्हृत्य निर्मित उत्पादित इति तेजसा सर्वभूता- न्यतिशेते सर्वोत्कृष्टो भवतीत्यर्थः । अथ वा इन्द्रानिलेत्यस्यारा- जके हीत्यनेन सम्बन्धः । मात्रा निर्हृत्य राजानमसृजत् इत्य- न्वयः । यस्मादेषामित्यत्र मात्राभिरिति वा पाठः । तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ अयं स्वतेजसा पश्यतां सूर्य इव चक्षूंषि मनांसि च तापयति ।