वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 233, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्तवास्तुविधिः । २३७ पूर्वोदक्प्रवणां धन्यां तथा वै दक्षिणोन्नताम् ॥ न तथा शकटाच्छिन्नां न च तोयपरिप्लुताम् । वल्मीकमूषिकावासश्वभ्रकण्टकितद्रुमैः ॥ विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूषराम् । न तथा यवसंस्थानां नेभवज्रोपमां तथा ॥ न शूर्पकूर्मसंस्थानां स्रक्तिहीनां तथैव च । स्रक्तिहीनां, कोणरहिताम् । सम्पूर्यमाणां स्वात्खातात्तथा रिक्तमृदं शुभाम् ॥ गर्भे च कुसुमं यस्या न म्लानिमुपगच्छति । न निर्वाणमवाप्नोति यस्यां दीपश्च भार्गव ॥ उदकं च तथा यस्यां शीघ्रं राम न जीर्यते । सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् । विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥ घृतासृग्गन्धमद्यानां तुल्यगन्धा तथैव च । मधुरा च कषाया च अम्लौषणरसा तथा ॥ कुशैः शरैस्तथा काशैर्दूर्वाभिर्या च संवृता । परीक्ष्य यत्नतो भूमिं तिथिनक्षत्रसम्पदा ॥ सम्पूज्य ब्राह्मणान् पूर्वं निःशल्यां तां तु कारयेत् । खातपूर्णां तु तां कृत्वा देवभागांश्च कल्पयेत् ॥ चतुःषष्टिपदं कृत्वा वास्तु सर्वं यथाविधि । चतुष्षष्टिविभागेन कल्पयित्वा समन्ततः ॥ एकैकं तु गृहं तत्र तथैव परिकल्पयेत् । यस्मात्सुरविभागेन द्वारन्यासः प्रकीर्त्तितः ॥ अतः परं प्रवक्ष्यामि देवभागान् यथाविधि ।