भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 25, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 25

राजप्रशंसा । १९ लक्ष्मीश्च पत्न्यौ"इत्यत्र व्याख्यातम्-श्रीः शरीरशोभा लक्ष्मीः प्रसिद्धेति । यद्वा प्रसादे पद्मा, पराक्रमे श्रीर्विजयश्च । दिक्पा- लरूपत्वात्तस्य तत्कार्यकारित्वमाह- स एव, इन्द्रस्यार्कस्य वातस्य यमस्य वरुणस्य च । सोमस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ तेजोवृत्तम् इन्द्राद्यंशसदृशमाचरणम् । वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति । तथाऽभिवर्षेत्तद्राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ चतुरः श्रावणादीन् । अष्टौ मासान् यथाऽऽदित्यस्तोयं हरति रश्मिभिः । तथा हरेत्करं राष्ट्रात्सम्‍यगर्कव्रतं हि तत् ॥ अष्टौ मार्गशीर्षादीन् । प्रविश्य सर्वभूतानि यथा चरति मारुतः । तथा चारैः प्रवेष्टव्यं व्रतमेतद्धि मारुतम् ॥ यथा यमः प्रियेद्वेष्यौ प्राप्ते काले नियच्छति । तथा राज्ञा नियन्तव्यः सर्वस्तद्धि यमव्रतम् ॥ वरुणेन यथा पाशैर्बद्ध एव हि दृश्यते । तथा पापान्निगृह्णीयाद्व्रतमेतद्धि वारुणम् ॥ परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः । तथा प्रकृतयो यस्मिन् स चन्द्रव्रतिको नृपः ॥ प्रतापयुक्तस्तेजस्वी नित्यं स्यात्पापकर्मसु । दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ यथा सर्वाणि भूतानि धरा धारयते समम् । तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥