वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 264, कुल 490 में से
संदर्भ में पढ़ें२६८ वीरमित्रोदयस्य राजनीतिप्रकाशे ग्राह्यमिति सिद्धम् । स्वयंगृहीतादर्द्धं ब्राह्मणेभ्यो दद्यादित्याह- विष्णुः, शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे द- द्यात्पञ्चांशान् ब्राह्मणेभ्यो दत्त्वाऽवशिष्टमंशद्वयमादद्यादिति । इति विष्णुयाज्ञवल्क्यवाक्ययोर्व्यवस्थां केचिदाहुः । परे तु द्विजशब्दो ब्राह्मणवचनः, सामान्यशब्दस्य विशेषपरत्वात् । तच्च शक्त्या लक्षणया वेत्यन्यदेतत् । विष्णुवाक्यानुरोधाच्चात्र वि- द्वत्त्वमविवक्षितम् । एवमितरपदमपि शूद्रपरमेव । भवतामपि वासिष्ठवाक्ये यत्पदस्य गौतमवाक्ये चाब्राह्मणपदस्य विशेषपर- त्वावश्यकत्वात् । इत्थं च क्षत्रियवैश्ययोः साधारण्येन वि- ष्णूक्ता व्यवस्थेत्याहुः । यत्तु विज्ञानेश्वरेण द्विजपदं ब्राह्मणपरम्, इतरपदं चा- विद्वद्ब्राह्मणक्षत्रियादिपरमित्युक्तम् । तच्च विष्णुस्मृत्यदर्श- ननिबन्धनम् । विज्ञानेश्वरानुयायिनस्तु विज्ञानेश्वरव्याख्या- तत्तात्पर्यकयोगीश्वरविष्णुस्मृत्योर्विकल्पमाहुः, ते श्रद्धामन्द- धिय उपेक्ष्याः । अपरार्कस्तु इतरपदमविद्वद्ब्राह्मणपरमिति प्राह । तस्यायमाशयः । अविद्वद्ब्राह्मणपरं गोरक्षकादिब्राह्मणपरम्, तथा चैते षष्ठांशभागिन इत्यर्थः । गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ इति स्मरणात् । अत्र विप्रपदं नीचकर्मकर्तृक्षत्रियवैश्ययो- रप्युपलक्षकम् । इत्थं च विद्वत्क्षत्रियवैश्ययोर्विष्णूक्ता व्यवस्थे- ति । विज्ञानेश्वरोक्तमप्येवमर्थकत्वे साधु सङ्गच्छते इति दिक् । अनिवेदित इति कर्त्तरि निष्ठा । तथा चायमर्थः-यो निधिं लब्ध्वा राज्ञे न निवेदितवान्, राज्ञा च निध्यधिगन्तृत्वेन विज्ञातः, स तं निधिं दाप्यः शक्त्यपेक्षया दण्डं चेति । तथा च-