वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 266, कुल 490 में से
संदर्भ में पढ़ें२७० वीरमित्रोदयस्य राजनीतिप्रकाशे धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः । निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥ अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः । इति । नदीतीरसमुद्रयोः शुल्कग्रहणमाह — मनुः, पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे । पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति । “भाण्डपूर्णानि”इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लो- कस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पु- रुषवाह्यो भारोऽर्द्धपणं दाप्यः । पशोः, गवादेः, योषितश्च पणचतुर्थांशः । भाररहितो मनुष्यः पणाष्टमभागं दाप्यः । तथा, भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किञ्चित्पुमांश्चापरिच्छदाः ॥ इति । भाण्डपूर्णानि, पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमू- ल्योत्कर्षापकर्षेण तार्यं दाप्यानि । रिक्तभाण्डानि, अपरिच्छदा दरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिद्दाप्याः । एतच्च पारावारगमने । नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया कल्पनीयम् । तदुक्तम्— तेनैव, दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति । समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु तत्र यथाव्यवस्थमेव देयमित्यर्थः । राज्ञा कर्षकवाणिगादिभ्यः किमिति करो ग्राह्य इत्यपेक्षित आह—