वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 27, कुल 490 में से
संदर्भ में पढ़ेंराजप्रशंसा । २१ अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥ तथा बृहत्पराशरः, यदा जिगीषुर्घृतशस्त्रपाणिस्त्विषं समालम्ब्य सचित्तसैन्यः । सर्वान्सपत्नानिह जेतुकामस्तदा स हर्यश्व इवेह भाति ॥ इति । नारदः, विगतक्रोधसन्तापो हृष्टरूपो यदा नृपः । प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ तथा बृहत्पराशरः, समस्तशीतांशुगुणप्रयुक्तो यदा प्रजामेष शुभाय पश्येत् । प्रसन्नमूर्त्तिर्गतमत्सरः संस्तदोच्यते सोम इति क्षितीशः ॥ नारदः, धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः ॥ तथा बृहत्पराशरः, धर्मासनस्थः श्रुतशास्त्रदृष्ट्या शुभाशुभाचारविचारकृत्स्यात् । धर्मेषु दानं त्वथ कृत्स्नदण्डं तदाऽवनीशस्त्विह धर्मराजः ॥ नारदः, यदा त्वर्थिगुरून् प्राज्ञान् भृत्यादीन् पृथिवीपतिः । अनुगृह्णाति दानेन तदा धनद उच्यते ॥ बृहत्पराशरोऽपि, यदा त्वमात्यद्विजपावकादीन् प्रहृष्टचित्तश्च यथोचितेन । धनप्रदानेन करोति हृष्टान् भूभृत्तदाऽसौ द्रविणेशवत्स्यात् ॥ अग्न्यादिपञ्चरूपत्वमुक्त्वाऽनाद्यनन्तात्मकविष्णुरूपत्वमाह— नारदः, अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः ।