वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 274, कुल 490 में से
संदर्भ में पढ़ें२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः । एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥ यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति । स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥ नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् । अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥ मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये । शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति । याज्ञवल्क्यः, स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति । मनुः, स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ व्यसनं, व्यसनकारणम् । दोषवदिति शेषः । सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥ अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते । तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥ येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति । इति मित्रम् । अथोपायाः । तत्र याज्ञवल्क्यः, उपायाः साम दानं च भेदो दण्डस्तथैव च ।