वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 289, कुल 490 में से
संदर्भ में पढ़ेंउपायेषु दण्डः । २९३ दुष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ इति । स च दण्डो द्विविधः । तदाह— नारदः, शारीरश्चार्थदण्डश्च दण्डश्च द्विविधः स्मृतः । शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्त्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च ॥ इति । यत्तु मनुना— धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ इति चतुर्विधत्वमुक्तम् । तत्राद्यं द्वयमल्पापराधविषयम् । वधदण्डः, शारीरो दण्डः । स च ब्राह्मणव्यतिरिक्तस्य कर्त्तव्य इति तत्स्थानानि वदतोक्तं मनुना । दश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ इति । एतेषां यन्निमित्तोऽपराधस्तत्रैवोपस्थादौ निग्रहः कार्यः । धनदानाशक्तस्य दण्डद्वयमाह— कात्यायनः, धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ इति । यत्त्वापस्तम्बः, चक्षुर्निरोधो ब्राह्मणस्येति । तत् पुरान्निर्वासनकाले वस्त्रादिना चक्षुर्निरोधः कार्य इति व्याख्येयम् । निरोधपदस्वारस्यात्पूर्वोदाहृतवचनाविरोधाच्च ।