वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 315, कुल 490 में से
संदर्भ में पढ़ेंद्वादशराजमण्डलम् । ३१९ तसेनापतियुवराजदौवारिकादीनामनुरागविरागौ चारादिभ्यो बोद्धव्यावित्यर्थः । मनुः, उपेतारमुपायं च सर्वोपायांश्च कृत्स्नशः । एतत्त्रयं समाश्रित्य प्रयतेतात्मसिद्धये ॥ इति । उपेतारम्, उपायप्रयोक्तारमात्मानम् । उपेयम्, उपाय- साध्यं शत्रुम् । इति सन्ध्यादिचिन्ता । अथ द्वादशराजमण्डलम् । विष्णुधर्मोत्तरे, राम उवाच । किन्नु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः । राज्यतन्त्रं कथं राज्ञा पालनीयं विपश्चिता ॥ पुष्कर उवाच । सप्ताङ्गस्य तु राज्यस्य भाव्यं युक्तेन भूभृता । एतावदेव कर्त्तव्यं राज्ञा तन्त्रं भृगूत्तम ॥ इति । सप्ताङ्गान्युक्तानि— तत्रैव, · साम दानं तथा दुर्गं कोशो दण्डस्तथैव च । मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ इति । मनुः, सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् । पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥ प्रकृतीनाम्, अङ्गानाम् । व्यसनं, व्यसनकारणम्, दोषव- दिति शेषः ।