वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 335, कुल 490 में से
संदर्भ में पढ़ेंशुभाशुभस्वप्नविपाककालः । ३३९ एषां, दुःस्वप्नानाम् । कल्कस्नानं तिलैर्होमो ब्राह्मणानां च पूजनम् । स्तुतिश्च वासुदेवस्य तथा तस्यैव पूजनम् ॥ नागेन्द्रमोक्षश्रवणं ज्ञेयं दुःस्वप्ननाशनम् । तथा, अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् । हंसं नारायणं चैव एतन्नामाष्टकं शुभम् ॥ त्रिसन्ध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति । शत्रुसैन्यं क्षयं याति दुःस्वप्नं च विनश्यति ॥ गङ्गायां मरणं चैव दृढभक्तिश्च केशवे । ब्रह्मविद्यावबोधश्च तस्मान्नित्यं पठेन्नरः ॥ इति । इति दुःस्वप्नाः । अथ शुभाशुभस्वप्नविपाककालः । स्वप्नास्तु प्रथमे यामे संवत्सरविपाकिनः । षड्भिर्मासैर्द्वितीये तु त्रिभिर्मासैस्तृतीयके ॥ चतुर्थे मासमात्रेण पश्यतो नात्र संशयः । एकस्यां यदि वा रात्रौ शुभं वा यदि वाऽशुभम् ॥ पश्चात् दृष्टस्तु यस्तत्र तस्य पाकं विनिर्दिशेत् । तस्माच्छोभनके स्वप्ने पश्चात्स्वप्नं न शस्यते ॥ इति । तदेवं पञ्चमेऽहनि सुस्वप्नदर्शने षष्ठेऽहनि यात्रायां निश्चि- तायां कृत्यान्तरमुक्तम्— विष्णुधर्मोत्तरे, षष्ठेऽहनि जयस्नानं कर्त्तव्यं च तथा भवेत् । विधिस्तस्याभिषेकार्थः सर्व एव विधीयते ॥ अस्य जयाभिषेकस्य प्रयोगो वक्ष्यते । अत्रैव वक्ष्यमाणा