वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 337, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे छत्राश्वादीनामभिमन्त्रणमन्त्राः। ३४१ पुष्कर उवाच । शृणु मन्त्रान्महाभाग भगवान्यत्पराशरः । गालवाय पुरोवाच सर्वधर्मभृतां वरः ॥ पराशर उवाच । यथाम्बुदश्छादयति शिवायैमां वसुन्धराम् । तथाच्छादय राजानं विजयारोग्यवृद्धये ॥ इति छत्रमन्त्रः । गन्धर्वकुलराजस्त्वं मा भूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ प्रभावस्त्वं हुताशस्य भगवंस्त्वं तुरङ्गम । तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ रुद्रस्य ब्रह्मचर्येण पवनस्य बलेन च । स्मर त्वं राजपुत्रोऽसि कौस्तुभं च मणिं स्मर ॥ यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा । भूम्यर्थेऽनृतवादी च क्षत्रियश्च पराङ्मुखः ॥ सूर्याचन्द्रमसौ वायुर्यावत्पश्यन्ति दुष्कृतम् । व्रजेस्त्वं तां गतिं क्षिप्रं तच्च पापं भवेत्तव ॥ विकृतिं यदि गच्छेर्नो युद्धेऽध्वनि तुरङ्गम । रिपून् विजित्य समरे सह भर्त्रा सुखी भव ॥ इत्यश्वमन्त्रः । शक्रकेतो महावीर सुपर्णस्त्वच्युताश्रितः । पतत्रिराड्वैनतेयस्तथा नारायणध्वजः ॥ काश्यपेयोऽमृताहर्ता नागारिर्विष्णुवाहनः । अप्रमेयो दुराधर्षो रणे चैवारिसूदनः ॥