वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 36, कुल 490 में से
संदर्भ में पढ़ें३२ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ क्षत्रियस्य राज्याभिषेकानन्तरमेव प्रजापालनस्य क- र्त्तव्यत्वेन राजाभिषेके कालो निरूप्यते । तत्राभिषेकस्य निषिद्धकालेऽकर्त्तव्यत्वेन प्रथमं निषिद्धका- लाः प्रदर्श्यन्ते । तत्र — काठकगृह्ये, राजाऽभिषेकं काम्यं च न कुर्याद्भानुलाङ्गिते । भानुलाङ्गिते असङ्क्रान्तमासे । तथा, मलमासे विवर्जयेत् । इत्युपक्रम्य— राज्ञोऽभिषेकः प्रथमश्चूडाकरणमेखलाः ॥ अन्नप्राशनमारम्भो गृहाणां च प्रवेशनम् । विष्णुधर्मोत्तरे, नाभिषेच्यो नृपश्चैत्रे नाधिमासे च भार्गव । न प्रसुप्ते तथा विष्णौ विशेषात्प्रावृषि द्विज ॥ न च भौमदिने राम चतुर्थ्यां च तथैव च । नवम्यां नाभिषेक्तव्यश्चतुर्दश्यां च भार्गव ॥ तथा, नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा । करणानि न शस्यन्ते व्यतीपातादिनं तथा ॥ नक्षत्रमुल्काभिहतमुत्पाताभिहतं तु यत् । सोमसूर्यकुजाक्रान्तं परिदृष्टं च भार्गव ॥ तथा, कुजहोरास्तथा नेष्टाः सर्वत्र कुलिकोऽस्य च । इति निषिद्धकालः ।